________________
[ ७३
अनेकान्तव्यवस्थाप्रकरणम् ] उत्पाद-व्यय-परिणामस्वभावाः पर्यायाः, शाश्वतं-नित्यम्, पुनद्रव्यम् , किञ्च, ते-गुणाः, तत्प्रभवाः-द्रव्यलब्धात्मलामाः, न पुनतद्-द्रव्यम् , तत्प्रभवं-गुणेभ्यो लब्धात्मस्वरूपम् , तेन, ते-द्रव्यपर्याया भिन्नाः॥
यस्माच जीवस्य शाश्वतस्य, तद्वयतिरिक्तं सामायिकं पर्यायः, तेन तत्-सामायिकम् , ततो जीवाद् , भिन्नम्-अत्यन्तव्यतिरिक्तम्, इच्छति पर्यायनयः, अतो मदीयं व्याख्यानमिदं यथार्थ घटमानकम्, पर्यायाथिकाभिमतद्रव्य-पर्यायात्यन्तभेदव्याप्यवैधय॑ज्ञानपरतया "उप्पजंति वियंति य०" [पत्र०६८] इत्यादिनियुक्तिगाथाया न्याय्यत्वादिति निर्गलितार्थः। णाममुपादाय उत्पाद-व्यय-परिणामस्वभावा इति । 'शाश्वतम्' इत्यस्य नित्यमित्यर्थः । 'ते' इत्यस्य गुणा इत्यर्थः। 'तत्प्रभवाः' इत्यस्य ध्यलब्धाऽऽत्मभावा इत्यर्थः । 'तद्' इत्यस्य द्रव्यमिति 'तत्प्रभवम् ' इत्यस्य च गुणेभ्यो लब्धात्मस्वरूपमित्यर्थः । 'ते' इत्यस्य द्रव्यपर्याया इत्यर्थः ॥ - तदिति- सामायिकम् , 'तत' इत्यस्य जीवात् , 'भिन्नम्' इत्यस्य अत्यन्तव्यतिरिक्तमित्यथः, अत इति पूरणम् , 'यथार्थम्' इत्यस्य घटमानकमित्यर्थः॥
तथा च " उप्पज्जंति०' [पत्र-६८ ] इत्यादिनियुक्तिगाथाया एतव्याख्याने निर्गलितमर्थमावेदयति-पर्यायार्थिकेति-विरुद्धधर्माध्यासाद् वस्तूनां भेदः सिद्धयति, नान्यथेन्यतो मेदो ब्यापकः साध्यत्वात् , विरुद्धधर्मश्च व्याप्यो लिङ्गत्वात् , एवं चोत्पाद-व्ययौ पर्याये वर्तेते न द्रव्य इति द्रव्यावृत्तित्वाद् द्रव्यस्य विरुद्धौ यावुत्पादव्ययौ धौ, तद्वत्त्वात् पर्याया द्रव्यादत्यन्तभिन्नाः, नित्यत्वपर्यवसितं शाश्वतत्वं पर्यायाऽवृत्तित्वात् पर्यायाणां विरुद्धधर्मः, तद्वत्त्वाद् द्रव्यं पर्यायेभ्योऽत्यन्तभिन्न मिति, तथा च पर्यायाथिकनयाभिमतो यो द्रव्य