________________
[ तत्त्वबोधिनीविवृतिविभूषितम् जीवस्स य सामाइअं पजाओ तेण तं तओ भिन्नं । इच्छइ पञ्जायणओ वक्खाणमिणं जहत्थं ति" ॥
[विशेषावश्यकभाष्यगाथाः-२६५१, २६५२, २६५३ ] आह कश्चिद् व्याख्यात्राभासः-ननु पर्यायाथिकनयमते यदिदं सर्वथा द्रव्याभावव्याख्यानं भवद्भिः कृतं तदयुक्तमेव, यत इह पर्याय. नयोऽपि द्रव्यमिच्छत्येव, किन्तु परस्परमत्यन्तभिन्नावेव द्रव्यपर्यायावसौ मन्यते, न पुनः कथश्चिदेव, इत्येतावता सिद्धान्तादस्य भेद इति ।
कुतः पुनरस्य द्रव्यपर्याययोरत्यन्तं भेद इत्याह-यद् यस्माद्, " आहाऽव्याख्यानमिदम्- इच्छति द्रव्यमिह पर्यवनयोऽपि । किन्त्वत्यन्तविभिन्नौ मन्यते स द्रव्यपर्यायौ ॥ उत्पादादिस्वभावाः पर्याया यच्च शाश्वतं द्रव्यम् । ते तत्प्रभवा न तत् तत्प्रभवं तेम ते भिन्नाः ॥ जीवस्य च सामायिकं पर्यायस्तेन तत् ततो भिन्नम् । इच्छति पर्यायनयो व्याख्यानमिदं यथार्थमिति" ॥ इति संस्कृतम् । उक्तगाथाचर्चार्थमुपदर्शयति- माहेति । क आहेत्यपेक्षायामाहकश्चिद् व्याख्यात्राभास इति। तद् व्यक्तमुपदर्शयति- नन्वित्यादिना । ननु पर्यायनयः पर्यायं स्वीकरोत्येव यदि द्रव्यमप्यभ्युपेयात् तदा प्रमाणरूपत्वात् सिद्धान्तरूपतैवास्य स्यादित्यत आह-किन्विति । असो पर्यायनयः । न पुनः कथञ्चिदेवेति- कथश्चिदेव भिन्नौ द्रव्य-पर्यायावित्येवं न पुनः इच्छतीत्यर्थः, स्याद्वादसिद्धान्तः कथञ्चिद् भिन्नौ द्रव्य-पर्यायावभ्युपगच्छति, पर्यायनयस्तु सर्वथा मिन्नौ द्रव्य-पर्यायौ स्वीकरोति, इत्येतावन्मात्रेण सिद्धान्तात् पर्यायनयस्य मेद ईत्याहइत्येतावतेति । अस्य पर्यायनयस्य ॥
कुतः ? कस्माद्धतोः । अस्य पर्यायनयस्य, 'मते' इति शेषः । ' यद् ' इत्यस्य यस्मादित्यर्थः। 'उत्पादादि.' इत्यादिपदग्राह्यन्ययपरि