________________
[७१
अनेकान्तव्यवस्थाप्रकरणम् ]
ते जप्पभवा जं वा तप्पभवं होज होज तो दवं । ण य तं ते चेय जओ परोप्परप्पचयप्पभवा" ।
[विशेषावश्यकभाष्यगाथे-२६४९, २६५०] एकदेशिमतमुत्थापयति" आहाऽवक्खाणमिदं इच्छइ दवमिह पञ्जवणओ वि । किंतचंतविभिन्ने मन्त्रइ सो दवपज्जाए ॥ उप्पायाइसहावा, पजाया जं च सासयं दव्यं ।
ते तप्पभवा ण तयं तप्पभवं तेण ते भिन्ना ।। वत्त्वात् , पत्रनीलतादिवदिति । अनभिमतप्रतिषेधमाह- न उ इत्यादि, 'सन्ति' बहुवचनव्यत्ययाद् एकवचनान्तमिहापि सम्बध्यते, न तु द्रव्यमस्ति, इत्यभीष्टं पर्यायार्थिकनयस्य, तद्विरहात्- उत्पादव्ययपरिणामाभावात् , खपुष्पवदिति ॥ ___ यदि हि यस्मात् प्रभवो येषां ते यत्प्रभवाः, ते प्रसिद्धा नीलादयो गुणाः, ‘ज वा तप्पभवं ति-यद् वा तत्प्रभव-तेभ्यो गुणेभ्यः प्रभवो यस्य तत् तत्प्रभवम् , गुणेभ्यो व्यतिरिक्तं किमपि वस्तु, 'होज्जत्ति- भवेदित्यर्थः, 'होज्ज तो दव्वं 'ति- ततस्तदेव. वस्तु पारमार्थिकं द्रव्यं भवेदिति । ण य तमित्यादि-न च तद् गुणानां कारणभूतं कार्यभूतं वा गुणेभ्यो व्यतिरिक्तं किमपि वस्त्वस्ति, यतस्त एव नील-रक्तादयो गुणाः पूर्वापरीभावतः सातत्येन प्रवृत्ता दृश्यन्ते, न पुनस्तदतिरिक्तं किमपि द्रव्यमीक्ष्यते । कथम्भूता गुणाः ? इत्याहपरोप्परेत्यादि-परस्परमन्योऽन्यं प्रत्ययः प्रत्ययभावः प्रत्ययत्वमित्यर्थः, तस्मात् प्रभवो जन्म येषां ते परस्परप्रत्ययप्रभवाः, प्रतीत्यसमुत्पादेनोत्पन्ना इत्यर्थः । तस्मान्न गुणेभ्यो व्यतिरिक्तं द्रव्यमस्तीति ॥
अत्र एकदेशिव्याख्यानमपाकतु भाष्यकृद् यदाह तदवतारयतिएकदेशीति । एकदेशिव्याख्यानोपदर्शकं भाष्यवचनम्- आहा• इति