________________
अनेकान्तव्यवस्थाप्रकरणम् ] ख्यातिरूपः, खण्डशः प्रसिद्धपदार्थयोरलीकसम्बन्धव्यवहारनियामकाऽऽहार्यशाब्दभ्रमलक्षणान्यथाख्यातिरूपो वेत्यन्यदेतत् । द्वितीय
एतच्च असत्ख्यात्यभ्युपगन्तबौद्धमतमवलम्ब्य। असत्ख्यात्य नभ्युपगन्तमतमवलम्ब्याह- खण्डश इति-शशोऽपि प्रसिद्धः शृङ्गमपि प्रसिद्धमिति खण्डशः प्रसिद्धयोः पदार्थयोः शशशृङ्गयोरलीकस्य सम्बन्धस्य 'सदुपरागेणासन्नपि संसर्गो भासते' इति वचनाद् यो व्यवहारस्तस्य नियामकः । आहार्यशाब्दभ्रमलक्षणेति- एतच्च परोक्षशानं निश्चयरूपमेव, अनाहार्यमेव, प्रत्यक्षमेव तु संशयादिरूपमिति मतमनादृत्य, तन्मते शशपदाच्छशस्य शृङ्गपदाच्छृङ्गस्योपस्थित्यनन्तरं मानस आहार्यभ्रमः, शब्दाच्छशशृङ्गं प्रत्येमीत्यनुव्यवसायानुपपत्तिरतस्तादृशानुव्यवसायानुरोधेन आहार्योऽपि शाब्दभ्रम ऊरीकरणीय इत्यभिसन्धिः, तथा च आहार्यशाब्दभ्रमलक्षणा याऽन्यथाख्यातिस्तदूपो वेत्यर्थः । अन्यथाख्याति म अन्यात्मना स्थितस्य तदन्यात्मना ज्ञानम् , तदभावति तत्प्रकारकं ज्ञानमिति यावत्, प्रकृते शशीयत्वाभाववति शुगे शशीयत्वप्रकारकं शशशृङ्गमिति शानं भवत्यन्यथाख्यातिरिति । अन्यदेतत् वादान्तरम् , विकल्पोऽसत्ख्यातिर्भवतु, अन्यथाख्यातिर्वा भवतु, उभयथाऽपि तत्सिद्धत्वमुपादाय द्रव्यादीनां धादिरूपतयाऽभिधानं सम्भवतीति तदेकपक्षखण्डन-मण्डनयोः प्रकृते नोपयोग इत्याशयः । ननु विकल्पोऽन्यथाख्यातिरूप इति पक्षे द्रव्यस्य क्वचित् प्रसिद्धस्यैव पर्याये ख्यातिर्विकल्प इति स्यात् , तथा च तदनुरोधेन द्रव्यस्य सत्त्वमायातमिति तदनभ्युपगमो न पर्यायार्थिकस्य सङ्गतो भवेदित्याशङ्कतेद्वितीयपक्ष इति- विकल्पस्यान्यथाख्यातिरूपत्वपक्ष इत्यर्थः। पूर्वोत्तरकालवृत्ति एकमखण्डं द्रव्यमेव पर्यायनयो नाभ्युपगच्छति, सौसादृश्याऽऽकलितपूर्वापरपर्यायक्षणसन्ततिरूपं द्रव्यमभ्युपगच्छत्येव, तच्च पर्यायतोऽभिन्नमेव, एवमपि तत्र पर्यायतो भित्र