________________
६६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् को नाम जीव: १ नास्ति कश्चनाप्यसाविति भावः । उक्तप्रयोगेषु धर्मिदृष्टान्ताद्यसिद्धिर्नाशङ्कनीया, विकल्पसिद्धानां तेषां साम्प्रदायिकैरम्युपगमात् । स च विकल्पोऽखण्डाऽलीकव्यवहारनिर्वाहकासत्लक्षणपर्यायमुपादायैव प्रवर्तते, न तु पर्यायं परित्यज्य, ततः पर्यायविरहेण-पर्यायविनिर्मोकेण सर्वासामप्यखण्डनामस्वरूपाणामुपाख्यानां शत्तथाप्रतिपाद्य एव, अखण्डनामवाच्या धर्मा अपि 'उपाख्या' इति गीयन्ते, तदाश्रयणे च सर्वधर्मानाश्रयः सर्वोपाख्यारहित इत्यर्थः । ' को नाम जीवः ?' इत्यत्र किम आक्षेपार्थकत्वमवलम्ब्य 'नास्ति' इत्याद्युक्तम् । पर्यायनये द्रव्यस्याप्रसिद्धत्वात् तत् पक्षीकृत्योक्ता अनुमानप्रयोगा न सम्भवन्तीत्याशङ्कां प्रतिक्षिपति- उक्तप्रयोगेष्विति- 'नास्ति परपरिकल्पितं द्रव्यम्' इत्यादिप्रयोगेष्वित्यर्थः । धर्मिदृष्टान्ताद्यसिद्धिरिति-क्रमेण द्रव्य-घट-जीवा धर्मिणः, खरविषाणं दृष्टान्तः, आदिपदग्राह्यो दृष्टान्ते प्रकृतसाध्य हेत्वोरविनाभावः, तेषामसिद्धिरित्यर्थः । धर्मि-दृष्टान्तयोर्विकल्पसिद्धत्वे तत्राऽविनाभावस्यापि विकल्पसिद्धत्वम् , “धर्मिणः प्रसिद्धिः क्वचिद् विकल्पतः, कुत्रचित् प्रमाणतः, क्वापि विकल्प प्रमाणाभ्याम् " [प्रमाण, परि० ३, सू० २१] इत्यनेनाकरसूत्रेण विकल्पसिद्धत्वं धर्मिण उपगतमिति धर्मिसिद्धिवद् दृष्टान्तादिसिद्धिरपि विकल्पत इति नाऽसिद्धिस्तेषामित्याह-'विकल्पसिद्धानामिति । तेषां धर्मिदृष्टान्तादीनाम् । विकल्प एव कः? यत्प्रसिद्धत्वं धादीनामित्याकाङ्क्षायामाह- स च विकल्प इति । अखण्डेति-शशस्य शृङ्गं शशशृङ्गमित्येवं सखण्डो न शशशृङ्गादिलक्षणोऽलीकः. किन्त्वखण्ड एव शशशृङ्गादिलक्षणोऽलीकः, तद्व्यवहारः 'शशशृङ्गमसन्नार्थक्रियाकारि' इत्यादिरूपः, तस्य निर्वाहका व्यवहारे व्यवहर्तव्यज्ञानस्य प्रयोजकत्वाच्छशशृङ्गादिव्यवहारे शशङ्गशानं प्रयोजकमिति निर्वाहकः। असत्ख्यातिरूपः असतः शशशृङ्गादेः ख्यातिओनं तदात्मका,