________________
भनेकान्तव्यवस्थाप्रकरणम् ]
नास्ति परपरिकल्पितं द्रव्यं पर्यायेभ्योऽर्थान्तरत्वात् खरविषाणवत , यद्वा नास्ति परपरिकल्पितं द्रव्यं पर्यायेभ्यो भेदेनाऽनुपलभ्यमानत्वात् व्यवहारेऽप्रयुज्यमानत्वाद् वा खरविषाणवदिति प्रयोगः । ___ यथा वा, रूप-रस-गन्ध-स्पर्शभ्यो विशिष्टः-भिनो घटो नास्ति, प्रमाणेग्रहणाभावात् खरविषाणवत् , तथाऽनाख्येय:पर्यायविरहेण सर्वोपाख्यारहितः, ज्ञानादिभ्यो विशिष्टः-व्यतिरिक्तः नाम ? अनाख्येयः" ॥ इति संस्कृतम् । उक्तगाथाद्वयार्थमुपदर्शयति- नास्तीति- अत्र ‘परपरिकल्पितं द्रव्यं नास्ति' इति प्रतिक्षा, 'पर्यायेभ्योऽर्थान्तरत्वाद्' इति हेतुः, 'खरविषाणवद्' इति दृष्टान्तः। परपरिकल्पितद्रव्यस्य नास्तित्वसाधने प्रकारान्तरेण प्रयोगमुपदर्शयति- यद्वेति-'पर्यायेभ्यो मेदेनाऽनुपलभ्यमानत्वाद्' इत्येको हेतुः, व्यवहारेऽप्रयुज्यमानत्वाद्' इति द्वितीयः। सामान्यतो द्रव्यनास्तित्वसाधनप्रयोगानुपदर्य विशेषतो द्रव्यनास्तित्वसाधनप्रयोगमुपदर्शयति- यथा वेति । 'विशिष्टः' इत्यस्य 'मिन्नः' इत्यर्थो दर्शितः । 'अनाख्येयः' इत्यस्य 'पर्यायविरहेण सर्वोपाख्यारहितः' इत्यर्थ उक्तः। समासानात्मकमखण्डं नाम उपाख्या, शक्त्या तत्प्रतिपादितोऽर्थःसोपाख्यः, शक्तिसम्बन्धेन उपाख्यया सहितः सोपाख्य इति व्युत्पत्तेः, गगनकुसुम-खरविषाण-बन्ध्यासुतादयो येऽलीकतया प्रसिद्धास्ते सर्वेऽपि समासशब्देनैवोट्टङ्किता भवन्ति, नहि किमप्यलीकं समासानात्मकाखण्डशब्दोल्लिखितम् , घटादयस्तु पदार्था घट-कुटाद्यखण्डनामप्रतिपाद्या यद्यपि सोपाख्या एव तथापि द्रव्यानभ्युपगन्त्रा पर्यायाथिकेन रूप-रसादिपर्यायव्यतिरिक्ततनवस्ते नाभ्युपगताः, घटादिशब्दस्तु रूपादिपर्यायात्मके तत्र प्रवर्तमानो 'घटनाद् घटः, कुटनात् कुटः' इत्यादिव्युत्पत्त्या जलाहरणादिक्रियालक्षणविशेषादि