________________
६४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
एतदेव पर्यायार्थिकमतं युक्त्या समर्थयति भाष्यकृत् - " पञ्जायनयमयमिणं, पजायत्यंतरं कओ दवं । उवलंभ द्यवहाराभावाओ खरविसाणं व ।। जह रुवाइ विसिट्ठो, न घडो सवप्पमाणविरहाओ । वह नाणा विसिडो, को जीवो णामणक्खेओ ? " [ विशेषावश्यकभाष्यगाथे--२६४६, २६४७ ]
माच्छादनं संवृतिः, अन्याकारं वस्तु तदन्याकारेण यदवभासयति ज्ञानं तत् संवृतिः, तत्समुत्था कल्पना विकल्पात्मिका बुद्धिः 'सांवृतो' इत्युच्यते, यथा - सन्ततिस्वरूपतामुपगताः पूर्वापरपर्याया न वस्तुतो द्रव्यम्, किन्तु तदनुगामि द्रव्यमन्यदेव, अथापि ताहशेष्वेव पूर्वापरपर्यायेषु द्रव्यबुद्धिर्भवति, सा निजेन द्रव्याकारेण पूर्वापरपर्यायाकारान् आवृणोतीति संवृतिः, तत्प्रभवा तदात्मिका वा कल्पना सांवृतीति ।
"
इह विशेषावश्यक विवरणमिदम् - " यद् यस्माद्, द्रव्यार्थिकनयः, तथ्यं - सत्यम्, द्रव्यमेवेच्छति, गुणस्तूपचारत एव मन्यते न तु सत्यान् ततः - तस्माद्, सामायिकगुणविशिष्ट:- उपसर्जनीभूतसामायिकादिगुणः, मुख्यतया जीव एव तस्य द्रव्यार्थिकनयस्य, सामायिकमिति । यस्मात् पर्यायार्थिकनयस्य मतेन पर्याय एव, तथ्यं - निरुपचरितम्, वस्तु, द्रव्यं पुनस्तेष्वेव र्वापरीभूत पर्यायेधूपचारतो व्याहियते, न तु परमार्थतस्तदस्ति तेषु - पर्यायेषु, उपचारस्तस्मादिति समासः । तेन तस्मात् कारणात्, पर्याय एवास्य मुख्यतया सामायिकम्, न जीवद्रव्यमिति ॥ २६४४ ॥ ॥ २६४५ ॥
पजाय इति - " पर्यायनयमतमिदं पर्यायादर्थान्तरं कुतो द्रव्यम् ? | उपलम्भ-व्यवहाराऽभावात् खरविषाणमिव ॥ यथा रूपादिविशिष्टो न घटः सर्वप्रमाणविरहात् । तथा ज्ञानादिविशिष्टः को जीवो