________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[६३ रेति, न चात्र धाराऽतिरिक्तं किमपि तैलमस्ति, एवं ज्ञानादिगुणातिरिक्तं जीवद्रव्यमपि नास्तीति पर्यायार्थिकाभिप्रायः॥ अत्र भाष्यम्
" इच्छइ जं दबनओ, दव्वं तचमुवयारओ य गुणे। सामइयगुणविसिट्ठो, तो जीवो तस्स सामइअं॥ पज्जाओ चिय वत्थु, तचं दवं च तदुवयाराओ। पजवणयस्स जम्हा, सामइयं तेण पजाओ॥"
[विशेषावश्यकभाष्यगाथे-२६४४, २६४५ ] प्रायः स्पष्टे । नवरं तदुपचाराद्' इति तेषु पूर्वापरीभूतपर्यायेषूपचरणमुपचारः सांवृती कल्पना, ततो व्यवहियते, न तु परमार्थतो द्रव्यमस्तीत्यर्थः ॥ तेति । 'न च' इत्यस्य 'अस्ति' इत्यनेनान्वयः। अत्र तैलधारायाम्। एवं यथा तैलधारायां धाराऽतिरिक्तं न तैलं समस्ति तथा ॥
उक्तार्थोपोलकं भाष्यमुल्लिखति-भत्र भाष्यमिति । इच्छइ. इति- “इच्छति यद् द्रव्यनयो द्रव्यं तथ्यमुपंचारतश्च गुणान् । सामायिकगुणशिष्टस्ततो जीवस्तस्य सामायिकम् ॥ पर्याय एव वस्तु तथ्यं द्रव्यं च तदुपचारात् । पर्यवनयस्य यस्मात् सामायिकं तेन पर्यायः" ॥ इति संस्कृतम् । इमे गाथे स्पष्टे न विवरणमपेक्षेते इत्याह- प्रायः स्पष्टे इति । नवरं केवलम् , ' तदुपचाराद्' इत्येव व्याख्येयम् , तव्याख्यानम्- तेष्वित्यादि । उपचारः कः? इत्यपेक्षायामाह- सांवृती कल्पनेति । ततः कल्पनातः । अयं भाव:- कल्पना द्विविधा पारमार्थिकी सांवृती च, तत्र प्रमाणबलसमुत्थाऽनुकूलतर्काद्युपबृंहिता कल्पना पारमार्थिकी, या वस्तुतत्त्वं न व्यभिचरति, यदाकारं वस्तु तदाकारेव सेति; या त्वभिनिवेशादिनिबन्धना कल्पना सा सांवृती, परमार्थस्य परस्वरूपस्य स्वस्वरूपेण संवरण: