________________
६२ ]
[ तत्त्वबोधिनीविवृत्तिविभूषितम्
निम्नोन्नतप्रतीतिवदिति दिग्। स एव सामायिकादिर्गुणः, पर्याय एवार्थी यस्य न तु द्रव्यं स पर्यायार्थिकनयस्तस्य मते परमार्थतोsस्ति, न तु जीवद्रव्यम्, यस्माज्जीवस्यैष गुणो जीवगुण इति षष्ठी - तत्पुरुषसमासोऽयम्, सचोत्तरपदप्रधानः, यथा - तैलस्य धारा तैलधारेकेणेति । तेषां गुणानाम् । यदि गुणा न सन्त्येव तर्हि घटादौ रूपादिगुणप्रतीतिः कथमित्याशङ्कते - कथं तहीति । घटादौ रूपादिगुणप्रतीतिः प्रमाऽऽत्मिका न भवत्येव किन्तु भ्रान्ता सा च विषयमन्तरेणापि जायते, यथा- चित्रे निम्नोन्नतत्वाद्यभावेऽपि तत्प्रतीतिरित्युत्तरयति-भ्रान्तैवेति । पूर्वार्द्ध व्याख्याय उत्तरार्द्ध विवृणोति - स एवेति । न तु जीवद्रव्यमिति - पर्यायार्थिकमते जीवद्रव्यं परमार्थतो नास्तीत्यर्थः । अयं जीवगुण इति शब्दः । स च षष्ठीतत्पुरुषसमासश्च । ननु गाथायां 'जीवगुणाः' इति समस्तं पदं नास्ति, अथापि कस्मादकस्मान्नभसो निपतितं यदाश्रित्य षष्ठीतत्पुरुषोऽयमिति ग्रन्थकृतो व्याख्यामिति चेत्, उच्यते- 'जीवो गुणप्रतिपन्नो द्रव्याfrer नयस्य मते सामायिकम् ' इत्युक्तथा गुणविशिष्टस्य जीवस्य सामायिकत्वं लभ्यते, पर्यायार्थिकनयस्य मते 'गुणः सामायिकम् ' इत्येतावन्मात्रोक्तितश्च गुणसामान्यस्यैव सामायिकत्वं लभ्यते, एवं च सति पुद्गलादिगुणानामपि सामायिकत्वं प्रसज्येतेत्यतः ' सो चेव ' इत्यनेन गुणमात्रमेव नोपादीयते किन्तु तद्वैतदर्थद्वारा समापतितः, अर्थात् स्मृतिपथमुपगतो 'जीवगुणः ' इति शब्दः, यद्यपि 'जीवस्य गुणः' इत्ययमपि शब्दः स्मृतिपथमागन्तुमर्हति तथापि विग्रहवाक्यतः समासवाक्यस्य लघुभूतत्वाद् 'अणुरपि विशेषोऽध्यवसायकरः ' इति न्यायेन ' जीवगुणः' इति समासशब्दः एव तथा ग्रहीतुं शक्य इति, स चायं समासः षष्ठीतत्पुरुष इत्येतदा विष्कतुं 'जीवस्स एस गुणो' इति विग्रहवाक्यं गाथाया अन्ते सन्निवेशितम्, अन्यथा 'सो चेव पज्जवट्ठियनयस्स ' इत्येतावतैवान्वयबोधपरिसमाप्तावनर्थकं तदापये