________________
[६१
अनेकान्तव्यवस्थाप्रकरणम् ] "जीवो गुणपडिवन्नो णयस्स दव्वट्ठियस्स सामइयं । सो चेव पज्जवट्ठियनयस्स जीवस्स एस गुणो"।
[विशेषावश्यकनियुक्ति० गाथा-२६४३] ॥ अस्यार्थः- द्रव्यमेवाओं यस्य न तु पर्यायाः स द्रव्यार्थिकस्तस्य नयस्य मतेन, जीव आत्मा, गुणप्रतिपन्नः सामायिकम् , न तु समतागुणरूपः पर्यायः। अस्य मते गुणाः खल्वौपचारिकत्वात "आदावन्ते च यन्नास्ति, वर्तमानेऽपि तत् तथा"। [अध्यात्मोपनिषद् ] इत्यादिन्यायाद् द्रव्यव्यतिरेकेण तेषामनुपलम्भाच्चासन्त एव । कथं तर्हि घटादिद्रव्ये रूपादिगुणप्रतीतिरिति चेद् ?, भ्रान्तैव चित्रे र्थिकस्य सामायिकम् । स एव पर्यायार्थिकनयस्य जीवस्यैष गुणः" ॥१॥ इति संस्कृतम् । निरुक्तगाथार्थ दर्शयति - अस्याऽर्थ इति । न विति-समतागुणरूपः पर्यायो न द्रव्यार्थिकमते . सामायिकमित्यर्थः । कथं न गुणरूपः पर्यायः सामायिकमित्यपेक्षायामाह- अस्य मते इति-द्रव्यार्थिकस्य मत इत्यर्थः। ‘गुणाः' इत्यस्य 'असन्त एव' इत्यनेनान्वयः, तत्र हेतुः-' औपचारिकत्वाद्' इत्येकः, 'अनुपलम्भाच' इति द्वितीयः । कथमौपचारिकत्वं गुणानाम् , पारमार्थिकत्वमेव न कुत इत्याकाङ्क्षायामाह- आदाविति-समतामुण आदौ सांसारिकक्रियाव्यापृतिदशायामपि नास्ति, अन्ते पुनः सामायिका वस्थात उपरमे नास्ति, तत् समतागुणपर्यायः, वर्तमानेऽपि मध्यावस्थायामपि, तथा नास्त्येवेति, न्यायात् युक्तः । यत् यतो व्यतिरिक्तं तत् तद्व्यतिरेकेण पृथगुपलभ्यते, यथा-घटादि पटादिव्यतिरिक्तं पटादिव्यतिरेकेणाप्युपलभ्यते समतागुणश्चात्मव्यतिरेकेण नोपलभ्यत इत्यनुपलम्भाच्च न सत्, अन्येऽपि गुणा द्रव्यव्यतिरेकेण नोपलभ्यन्त इत्यसन्त एव द्रव्यार्थिकमते इत्याह- द्रव्यव्यति