________________
६० ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
विशेषणत्वेनोपसर्जनत्वात् ३ । इत्थं चात्र धर्मप्राधान्ये पर्यायप्राधान्यात् पर्यायार्थिकत्वमपि दुर्निवारमिति चेत् , सत्यम् - द्रव्यपर्यायोभयग्राहित्वेऽपि नैगमस्याधिकृतवस्तुनि द्रव्य-पर्यायान्यतरात्मकत्वजिज्ञासायां द्रव्यांशाऽप्रतिक्षेपेणैव द्रव्यार्थिकत्व निर्धारणात्, अन्यथा सामान्यरूपस्यास्य सङ्ग्रहे विशेषरूपस्य च व्यवहारेऽन्तर्भावपक्षे व्यवहारस्यापि द्रव्यार्थिकतायाश्चिन्त्यत्वापत्तेः, निर्णीते च स्वस्वान्यविषयप्रतिक्षेपेणैव द्रव्य-पर्यायग्राहिणोर्द्रव्यार्थिकत्व - पर्यायाथिंकत्वे नियुक्ति- भाष्यादौ, तदाह - सामायिकमाश्रित्य एतच्चिन्तायां भगवान् भद्रबाहु :
तो जीव: ' इत्यस्मिन् । इत्थं च उक्तप्रकारेण नगमस्य त्रिविधत्वे च । अत्र नैगमे । समाधत्ते - सत्यमिति । अन्यथा द्रव्यांशाप्रतिक्षेपित्वप्रयुक्तद्रव्यार्थिकत्वानभ्युपगमे । सामान्यरूपस्य सामान्यग्राहिणः । अस्य नैगमस्य । सङ्प्रहे" इत्यस्य 'अन्तर्भावपक्षे' इत्यत्रान्वयः । चिन्त्यत्व'ऽऽपत्तेः विशेषात्मकपर्यायविषयकत्वेन पर्यायार्थिकत्वस्यैव प्राप्तेस्तस्य द्रव्यार्थिकता कथं सङ्गता स्यादित्येवं चिन्तनीयत्वापत्तेः । ननु व्यवहारविषयस्य द्रव्यत्वमपीत्येतावता द्रव्यार्थिकत्वं तस्य भवेदिति चेत् ? न-द्रव्यार्थिकस्य पर्यायनयविषयप्रतिक्षेपकत्वेन द्रव्यार्थिकत्वम्, पर्यायार्थिकस्य द्रव्यनयविषयप्रतिक्षेपकत्वेन पर्यायाथिंकत्वमित्यस्यैव सिद्धान्तितत्वेन व्यवहारस्य पर्यायाप्रतिक्षेपकत्वे द्रव्यार्थिकत्वासम्भवादित्याह – निर्णते चेति-अस्य ' द्रव्यार्थिकत्व - पर्यायार्थिकत्वे' इत्येनान्वयः । नियुक्तिभाष्याऽऽदौ निर्णति इति यदुक्त तदेव दर्शयति - तदाहेति । एतच्चिन्तायां द्रव्यार्थिकत्वादिविचारणायाम् ।
जीवो गुणपडिवन्नो० इति - " जीवो गुणप्रतिपन्नो नयस्य द्रव्या