________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ५९ प्राधान्यदर्शनात् । त्रिविधो ह्ययमाकरादावुदाहियते, धर्मयोधर्मिणोधर्म-धर्मिणोश्च प्रधानोपसर्जनभावेन विवक्षणात्, तत्र " सञ्चैतन्यमात्मनि०" [प्रमाण० परि० ७, सू० ८ ] इत्याद्यो भेदः, अत्र चैतन्याख्यास्य धर्मस्य विशेष्यत्वेन प्राधान्यात्, सत्ताख्यधर्मस्य तु विशेषणत्वेनोपसर्जनभावात् १ । “वस्तु पर्यायवद्रव्यम्" [प्रमाण० परि० ७, सू०९] इति द्वितीयो भेदः, वस्त्वाख्यधर्मिणो विशेष्यत्वेन प्राधान्यात, पर्यायवद्रव्यस्य तु विशेषणत्वेनोपसर्जनभावात् । “क्षणमेकं सुखी विषयाऽऽसक्तो जीवः" [प्रमाण परि० ७, सू० १० ] इति तृतीयो भेदः, अत्र विषयासक्तजीवाख्यधर्मिणो विशेष्यत्वेन मुख्यत्वात् , सुखलक्षणधर्मस्य तु
न्येन धर्मलक्षणपर्यायावगाहित्वं समस्तीत्युपदशयितुं तस्य रत्नाकराद्युक्तं सनिदर्शनं त्रविध्यमुपदर्शयति-त्रिविधो हीति-हि यतः। अयं नैगमः। आकरादौ स्याद्वादरत्नाकरादौ । धर्मयोगिति--धर्मयोः प्रधानोपसजनभावेन विवक्षात एकस्य धर्मस्य प्राधान्येनाऽन्यस्य धर्मस्योपसर्जनभावेनावगाही नगम एकः, धर्मिणोः प्रधानोपसर्जनभावेन विवक्षात एकस्य धर्मिणः प्राधान्येनान्यस्य धर्मिण उपसर्जनभावेनावगाही नैगमो द्वितीयः, धर्म-धर्मिणोः प्राधानोपसर्जनभावेन विवक्षातो धर्म-धर्मिणोरेकस्य प्राधान्येनान्यस्योपसर्जनतयाऽवगाही नैगमस्तृतीय इत्येवं त्रिविधो नेगम इत्यर्थः । तत्र त्रिषु नैगमेषु । आद्यो भेदः धर्मयोः प्रधानोपजनभावेनावगाही नैगमः । अत्र 'सच्चैतन्यमात्मनि' इत्यस्मिन् । द्वितीयो भेदः धर्मिणोः प्रधानोपसर्जनभावेनावगाही नैगमः। तृतीयो भेदः धर्म-धर्मिणोः प्रधानोपसर्जनभावेनावगाही नैगमः । अत्र 'क्षणमेकं सुखी विषया