SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ५८] [ तत्त्वबोधिनीविवृतिविभूषितम् ननु यदि द्रव्य-पर्यायोभयविषयावगाही नैगमस्तदा "आद्यास्त्रयो द्रव्यार्थिकाः” “अन्त्याश्चत्वारः पर्यायाथिका" इति सिद्धसेनाचार्याणाम् , “आद्याश्चत्वारो द्रव्यार्थिकाः" "अन्त्यात्रयः पर्यायार्थिकाः” इति जिनभद्रगणिक्षमाश्रमणपूज्यपादानां च विभागवचनं व्याहन्येत, नैगमस्योभयान्तःपातित्वेन पर्यायाथिकाधिक्यात् । न चोभयविषयकत्वेऽपि द्रव्यांशे प्राधान्येनास्य द्रव्यार्थिकत्वमेवेति वाच्यम्, पर्यायांशेऽपि कचिदस्य र्थिक-पर्यायार्थिकविभागे श्रीसिद्धसेनसूरिमते नैगमजुसूत्र-शब्दसमभिरूलैक्म्भूताः पञ्च पर्यायार्थिकाः स्युरिति चतुर्धा पर्यायार्थिकविभजनं न सङ्गतं स्यात् , एवं पूज्यानां मते नैगम-शब्द-समभिरूढैवम्भूताश्चत्वारः पर्यायार्थिकाः प्रसज्येरनिति पर्यायार्थिकस्य विधा विभजनमपि अयुक्तमापद्यत इति शङ्कते- नन्विति । आद्यास्त्रयः नैगमसङ्ग्रह व्यवहाराः । अन्त्याश्चत्वारः ऋजुसूत्र-शब्द-समभिरूद्वैवम्भूताः, इति सिद्धसेनाचार्याणां विभागवचनं व्याहन्येत इत्यन्वयः । आयाश्चत्वारः नैगम-सङ्गह-व्यवहारजुसूत्राः । अन्त्यास्त्रयः शब्द-समभिरूदैवम्भूताः। उभयान्तःपातित्वेन द्रव्यार्थिक-पर्यायार्थिकोभयान्तम्पातित्वेन । 'नच' इत्यस्य वाच्यम्'इत्यनेनान्वयः, नैगमस्य द्रव्य-पर्यायोभयविषयकत्वेऽपि प्राधान्येन द्रव्यावगाहित्वाद् द्रव्यार्थिकेऽन्तर्भावः, गौणतयैव पर्यायावगाहित्वान्न पर्यायार्थिकेऽन्तर्भाव इति शङ्कार्थः। यदि सर्वस्य नैगमस्य प्राधान्यतो द्रव्यावगाहित्वमेवेति नियमः स्यात् तदेदं विनिगमकं युक्तं भवेत् , न चवम्- कस्यचिन्नगमस्य प्राधान्येन पर्यायावगाहित्वस्यापि भावादिति निषेधहेतुमुपदर्शयति- पर्यायांशेऽपीति । भस्य नैगमस्य। __ यस्य नैगमस्य प्राधान्येन धर्मावगाहित्वं तस्य नैगमस्य प्राधा
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy