________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[५७ न-परस्परं वस्तुतश्च भिन्नसामान्य-विशेषोभयाभ्युपगन्तृत्वेनास्य कणादवन्मिथ्यादृष्टित्वात् , तदुक्तं महाभाष्ये [विशेषावश्यकमहाभाष्ये गाथा-२१९५] सम्मतौ [ सम्मतितर्के ३-४९] च
" दोहि वि णएहि णीयं सत्थमुलूयण तहवि मिच्छत्तं । ___जं सविसयपहाणतणेण अण्णोण्णणिरवेक्खा" ||१||
अस्यार्थः-द्वाभ्यामपि द्रव्यास्तिकनय-पर्यायास्तिकनयाभ्याम् , नीतं समर्थितम्, शास्त्रम्, उलूकेन वैशेषिकदर्शनाद्यप्रवर्तकेन तथापि तन्मिथ्यात्वमेव, यद् यस्मात् , ताविति शेषः, तौ वैशेषिकदर्शनप्रवर्तको द्रव्यार्थिको नयो, स्वविषयप्रधानत्वेन सावधारणस्वविषयावगाहित्वेन, अन्योऽन्यनिरपेक्षौ इतरांशाऽपलापिनौ, जैनाभिमतौ तु तौ स्याच्छब्दलाञ्छितत्वेन परस्परसापेक्षत्वान्न मिथ्यारूपाविति भावः॥ विशेषः, विशेषाद् भिन्नं च सामान्यमसदेव, तथाविधसामान्यविशेषोभयाभ्युपगन्तृत्वेन नैगमस्य कणादवन्मिथ्यादृष्टित्वमेवेति समाधत्ते- नेति । परस्परम् अन्योऽन्यम् । वस्तुतश्च आधारतश्च । भिन्नतिएकान्तभिन्नेत्यर्थः । अस्य-नैगमस्य । __उक्ताथै विशेषावश्यकमहाभाष्यस्य सम्मतितर्कस्य च सम्मतिमुपदर्शयति-तदुक्त मिति । दोहि वि. इति-"द्वाभ्यामपि नयाभ्यां नीत शास्त्रमुलूकेन तथापि मिथ्यात्वम् । यत् स्वविषयप्रधानत्वेनान्योऽन्यनिरपेक्षौ" ॥ १॥ इति संस्कृतम् । एतद्विवरणमुपदर्शयतिअस्याऽर्थ इति । तौ द्रव्यार्थिक-पर्यायार्थिकनयौ, अन्यत् स्पष्टम् ।
ननु द्रव्यविषयकत्वेन नैगमस्य यथा द्रव्यार्थिकत्वं तथा पर्यायविषयकत्वेन पर्यायार्थिकत्वमपि तस्य स्यात्, एवं च द्रव्या