________________
५६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
एव, स्वस्मिन्नितरभेदबुद्धेः स्वातिरिक्त विशेषहेतु कत्वनियमाद्, गोत्वादिसामान्यविशेषस्थले तथादर्शनादित्यवधेयम् ॥
नन्वेवं द्रव्यार्थविषयं सामान्यं पर्यायार्थविषयं विशेषं चेच्छनैगमः साधुवदुभयनयावलम्बित्वेन सम्यग्दृष्टिः स्यादिति चेत् ? परस्परभेदबुद्धिहेतवः परमाणव एव सन्तु, अलं तद्धेतुतयाऽतिरिक्तविशेषपदार्थाभ्युपगमेनेत्यत आह- स्वस्मिन्निति । ननु स्वस्मिन्नितरभेदबुद्धेः स्वाऽतिरिक्तविशेषहेतुकत्वनियमे विशेषेऽपि विशेषान्तरभेदबुद्धेः स्वातिरिक्तविशेषहेतुकत्वं स्यात्, एवं विशेषगतातिरिक्तविशेषेऽपि तदितरभेदबुद्धेः स्वातिरिक्तविशेषहेतुकत्वप्रसक्तिरित्येवमनवस्था स्यादित्यत आह- गोत्वादिसामान्यविशेषस्थल इति - गोत्वादिः सामान्यविशेषो यस्य स गोत्वादिसामान्यविशेषः, तदात्मकस्थले इत्यर्थः, अथवा गोत्वादिलक्षणो यः सामान्यविशेषः स गोत्वादिसामान्यविशेषः, तस्य स्थलं स्थानम् आधार इति यावत्, तत्रेत्यर्थः । तथादर्शनात् इतरभेदबुद्धेः स्वातिरिक्तविशेषहेतुकत्वदर्शनात् । तथा च सामान्यविशेषात्मकजातिमति इतरमेदबुद्धेः स्वातिरिक्तविशेषहेतुकत्वमिति नियमः, यथा - गवि अश्वादिभेदबुद्धिर्गवातिरिक्तगोत्वात्मक विशेषहेतुका, विशेषस्तु न जातिमानिति तस्मिन्नितरबुद्धेर्न स्वातिरिक्तविशेषहेतुकत्वम्, अत एवानवस्थापरिहाराय विशेषाणां स्वत एव व्यावृत्तत्वस्वभाव उपेयते, परमाणूनामुक्तनियमादेव न स्वत एव व्यावृत्तत्वमित्येतत्सूचनायोक्तम्- अवधेयमिति ।
सामान्यं विशेषं चाभ्युपगच्छन् जैनसाधुर्यथा सम्यग्दृष्टिस्तथा नैगमोऽपि सामान्य-विशेषोभयोपगन्ता स्यात्, द्रव्यार्थिकपर्यायार्थिको भयनयविषयाभ्युपगन्तृत्वादित्याशङ्कते - नन्वेवमिति । साधुवत् जैनसाधुवत् । कथञ्चिदन्योऽन्याभिन्नसामान्य-विशेषोभयाऽभ्युपगन्तृत्वे सत्येव सम्यग्दृष्टित्वम्, एकान्तेन सामान्याद् भिन्नो