________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ५५
एतद्व्युत्पत्त्यर्थमेव प्रस्थकादिदृष्टान्तोपदेशाद् । अस्मिन् नये विशेषेभ्योऽन्यदेव सामान्यम्, अनुवृत्तिबुद्धिहेतुत्वात्, सामान्याच्चान्य एव विशेषाः, व्यावृत्तिबुद्धिहेतुत्वात् एवमाश्रयादपि भिन्नमेव सामान्यम्, अन्यथा व्यक्तिवत् साधारण्यानुपपत्तेः; एवं तुल्याऽऽकृति गुण-क्रियैकप्रदेश निर्गताss - गतपरमाणुषु योगिनां परस्परभेदबुद्धिहेतुरन्त्यविशेषोऽपि परमाणुभ्यो भिन्न उपचाराभ्यामविशुद्धयादिभावनोत्रेया । एतद्व्युत्पत्त्यर्थमेव उपचाराऽनुपचाराभ्यामविशुद्धयादिज्ञानार्थमेव ॥
नयान्तरेभ्यो नैगमनयस्य विशेषमुपदर्शयति- अस्मिन् नय इतिनैगमनय इत्यर्थः, विरुद्धधर्माध्यासाद् भेदः सिद्ध्यति, तेनानुवृत्तिबुद्धिहेतुत्वं विशेषावृत्ति सामान्ये वर्त्तत इति सामान्यं विशेषाद् भिन्नम्, व्यावृत्तिबुद्धिहेतुत्वं सामान्यावृत्ति विशेषेषु वर्त्तत इति विशेषाः सामान्याद् भिन्ना इत्यर्थः । आधारव्यक्तिभ्योऽपि सामान्यं भिन्नं व्यक्तीनामसाधारण्यात्, सामान्यस्य साधारण्यात्, सामान्यस्य व्यक्तिरूपत्वे तु व्यक्तिवत् सामान्यस्यापि साधारण्यं न स्यादित्याह - एवमाश्रयादपीति । अन्यथा व्यक्तिभ्यः सामान्यस्य भेदाभावे । साधारण्याऽनुपपत्तेः अनुगतत्वानुपपत्तेः । यथा च सामान्यस्य व्यक्तिभ्यो भिन्नत्वं तथा विशेषाणामपि स्वाश्रयेभ्यः परमाणुभ्यो भिन्नत्वमित्युपदर्शयति- एवमिति । तुल्येत्यस्याकृति - गुणादौ सर्वत्रान्वयः अनेन च नाकृत्यादितः परमाणूनामन्योऽन्यभेदस्य परिज्ञानं सम्भवतीति दर्शितम् । अस्मदादीनां न परमाणवः प्रत्यक्षाः, नवा तद्गता विशेषाः प्रत्यक्षा इति न विशेषतः परमाणूनामन्योऽन्यभेदबुद्धिसम्भवः, किन्तु योगिन एव तुल्याकृत्यादिविशिष्टेष्वपि परमाणुषु प्रत्यक्षविषयीकृतेभ्यो विशेषेभ्यो भेदमवगन्तुं प्रभविष्णव इति योगिनामित्युक्तम् । परमाणुषु योगिनां-