________________
५४]
[ तत्त्वबोधिनीविवृतिविभूषितम् एवं घटादिष्वपि कार्य-कारणयोरवयवा-ऽवयविनोरन्यप्रकारेण चोपचारा-ऽनुपचाराभ्यामविशुद्ध-मध्यम-विशुद्धभेदा भावनीया,
प्रस्थकश्चर्जुसूत्रस्य मानं मेयमिति द्वयम् । न ज्ञ-कर्तृगताद् भावाच्छब्दानां सोऽतिरिच्यते ॥ ६६ ॥ लोके च तिर्यग्लोके च जम्बूद्वीपे च भारते। क्षेत्रे तदक्षिणाऽर्द्धं च पाटलीपुरपत्तने ॥६७ ॥ गृहे च वसतिः कोणे नैगम-व्यवहारयोः। अतिशुद्धौ तु निवसन् वसतीत्याहतुः स्म तौ ॥ ६८ ॥ तदर्थस्तत्र तत्कालावच्छिन्ना तस्य वृत्तिता । वसत्यद्य न सोऽत्रेति व्यवहागैचिती ततः ॥ ६९ ॥ यत् त्वन्यत्र गतस्यापि तद्वासित्वं निगद्यते । तद्वासवृत्तिभागित्वे ज्ञेयं तत् त्वौपचारिकम् ॥ ७० ॥ सङ्ग्रहो वसतिं ब्रूते जन्तोः संस्तारकोपरि। ऋजुसूत्रः प्रदेशेषु स्वावगाहनकृत्सु खे ॥ ७१ ॥ तेष्वप्यभीष्टसमये न पुनः समयान्तरे। चलोपकरणत्वेनान्यान्यक्षेत्रावगाहनात् ॥ ७२ ॥ स्वस्मिन् स्ववसतिं प्राहुस्त्रयः शब्दनयाः पुनः । एषानुयोगद्वारेषु दृष्टान्त नययोजना ॥ ७३ ॥ शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धाः स्थूलगोचराः । . फलतः शुद्धतां त्वाहुर्व्यवहारे न निश्चये ॥ ७४॥
उपचारोऽशुद्धताप्रयोजकः, अनुपचारस्तु शुद्धताप्रयोजक इति बोध्यम् ।
प्रकारान्तरेणापि नगमादिनयेष्वविशुद्धादित्रयभावनामुपदिशति- एवमिति । कार्य-कारणयोरिति-कार्यधर्मस्य कारणे उपचारः कारणधर्मस्य कार्ये उपचार इत्यतोऽविशुद्धता, अनुपचारे शुद्धता, अवयवावयविनोरप्येवम् , तथाधाराधेयादिष्वप्युपचाराऽ