________________
६८]
[ तत्त्वोधिनीषिवृत्तिविभूषितम् पक्षेऽन्यत्र सत एवान्यत्रारोप इति द्रव्यस्य सत्त्वप्रसक्तिरिति चेत् , न-सभागक्षणसन्ततिरूपद्रव्यपदाथै पर्यायात् पृथक्त्वश्रमोत्तरं पर्याय तत्सम्बन्धोपचारेणापि तत्सत्त्वासिद्धेरिति दिग् ॥
एतदेव पर्यायार्थिकमतं नियुक्तिकृदपि समर्थयबाह"उप्पजति वियंति य परिणमंति य गुणा ण दवाई । दवप्पभवा य गुणा ण गुणप्पभवाई दवाई " ॥
[विशेषावश्यकभाष्यगाथा-२६४८ ] ' त्वनमे तदनन्तरं पर्याये तत्सम्बन्धोपचारतस्तद्व्यवहार इति न द्रव्यस्य वास्तविकस्य सत्त्वसिद्धिरिति समाधत्ते-नेति । सभागेतिसमानाः सहशा भागा यस्याः सा सभागा, सभागा चासो क्षणसन्ततिश्च सभागक्षणसन्ततिः, तद्रूपस्तदात्मको यो द्रव्य पर्यायस्तस्मिनित्यर्थः । तत्सम्बन्धोपचारेणाऽपि निरुक्तस्वरूपस्य द्रव्यस्य सम्बन्धोपचारेणापि। तत्सत्त्वाऽसिद्धेः अतिरिक्तद्रव्यपदार्थसत्त्वासिद्धः। पर्यायार्थिकमते सर्वं वस्तु क्षणिकपर्यायस्वरूपमेव, क्षणमात्रस्थायित्वात् पर्यायाणां क्षणरूपत्वम्, तद्धिकरणकालात्मकक्षणस्त्वतिरिको न तन्मते उपेयते, अतः 'सभागक्षणसन्ततिरूपद्रव्यपदार्थे ' इत्यत्र क्षणशब्देनैकसन्ततिपतितपर्यायस्वरूपस्यैव ग्रहणम् , कालस्यातिरिक्तस्याऽभावादेव न ग्रहणम् । काष्ठपर्यायस्यानन्तरं भस्मपर्यायः, तस्य व विसइशो मृत्तिकादिपर्याय इत्येवं बिसभागानां विसदृशानां पूर्वापरभावेन व्यवस्थितानामपि पर्यायाणां सन्ततिन द्रव्यम्, किन्तु सभागानां सदृशानां प्रतिक्षणं विभिन्नानां पूर्वापरीभावमापनानां काष्ठपर्यायाणां सन्ततिरेव द्रव्यम् , तथा च घटादिपर्यायाणां सदृशानां सन्ततिरेव व्यमित्यावेदनाय ' सभाग' इति विशेषणम् । . उक्तपर्यायार्थिकमतसमर्थनं विशेषावश्यकनियुक्तिकृतोऽप्यभिप्रेतमित्याह- एतदेवेति- अनन्तरोपवर्णितमेवेत्यर्थः । उपज्जति० इति