________________
५२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
मिनोति मिमीते वा निरुक्तविधिना वर्णविपर्ययान्नगमः; यद्वा गम्यतेऽनेनेति गमः - पन्थाः, नैके गमाः- पन्थानो यस्य स नैकगमः, निरुक्तविधिना ककारलोपानैगमः, अथवा लोकार्थनिबोधा निगमाः, तेषु भवः कुशलो वा नैगमः । अयं च महासामान्यदिषु त्रिषु क्रमेण सर्वाऽविशुद्धो विशुद्धाऽविशुद्धो विशुद्धश्च ज्ञातव्यः । एवं प्रस्थकाद्युदाहरणेष्वपि सिद्धान्तसिद्धेषु भावनीयम् ।
--
भवेत्, कथं नैगमः? इत्याशङ्कायामाह - निश्क्तविधिना वर्णविपर्ययादितिवर्णविपर्ययः ककारस्थाने गकारः । यदुक्तम्
" वर्णागमो वर्णविपर्ययश्च द्वौ चाऽपरौ वर्णविकार - नाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् " ॥ १ ॥
नैगमस्यैव स्वरूपं निरुक्त्यन्तरेणाह - यद्वेति । उक्तनिर्वचने नैकगम इति प्राप्तौ कथं नैगमः ? इत्यपेक्षायामाह - निरुक्तविधिना कक्कारकोपादिति । कल्पान्तरमाह - अथवेति- अत्र न वर्णविपर्ययो नवा ककारलोप इति विशेषः । तथा च महासामान्याभ्युपगमा - ऽवान्तरसामान्याभ्युपगम- विशेषाभ्युपगमैतत्रितय वृत्तिनयत्वव्याप्यजातिमत्वं
गमत्वमिति नैगमलक्षणम् । अत्र नयत्वव्याप्येति जातिविशेषणान्नयत्वजातिमादाय नयान्तरेषु नाऽतिप्रसङ्गः, सङ्ग्रहत्वस्य विशेषाभ्युपगमवृत्तित्वाऽभावान्न तमादाय सङ्ग्रहेऽतिप्रसक्तिः व्यवहारत्वस्य महासामान्याभ्युपगमवृत्तित्वाभावान्न व्यवहारेऽतिप्रसङ्गः । अस्य सर्वाविशुद्ध-विशुद्धाविशुद्ध-विशुद्धभेदेन त्रैविध्यसुपदर्शयति-अयं चेति नैगमश्चेत्यर्थः । ' महासामान्यादिषु' इत्यत्रादिपदादवान्तरसामान्य विशेषयोर्ग्रहणम् । एवं सर्वाविशुद्धादिभेदेन । " प्रस्थकादि ० इत्यादिपदाद् प्रदेश-वसत्योरुपग्रहः । प्रदेश-प्रस्थकश्वसत्युदाहरणभावना श्लोका नयोपदेशगता इमे
>