________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[५६ नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र-शब्द-समभिरूद्वैवम्भूता नयाः। तत्र नकै प्रभूतैर्मानमहासामान्याऽवान्तरसामान्य-विशेषज्ञानलक्षणव्यवसायकत्वाऽसि द्वेः। ननु नयविषयतया सम्मतोऽर्थैकदेशोऽपि यदि वस्तु तदा तत्परिच्छेदी नयः प्रमाणमेव, वस्तुपरिच्छेदलक्षणत्वात् प्रमाणस्यः स न चेद् वस्तु? तर्हि तद्विषयो नयो मिथ्याज्ञानमेव स्यात् , तस्याऽवस्तुविषयत्वलक्षणत्वादिति चेत् ? तदन वद्यम्- अर्थैकदेशस्य वस्तुत्वाऽवस्तुत्वपरिहारेण वस्त्वंशतया प्रतिशानात् , तथा चाऽवाचि"नाऽयं वस्तु न चाऽवस्तु वस्त्वंशः कथितो बुधैः। नाऽसमुद्रः समुद्रो वा समुद्रांशो यथैव हि ॥१॥ तन्मात्रस्य समुद्रत्वे शेषांशस्याऽसमुद्रता। समुद्रबहुता वा स्यात् तत्त्वे क्वाऽस्तु समुद्रवित् ॥ २॥"
यथैव हि समुद्रांशस्य समुद्रत्वे शेषसमुद्रांशानामसमुद्रत्वप्रसङ्गात्, समुद्रबहुत्वाऽऽपत्तेर्वा तेषामपि प्रत्येकं समुद्रत्वात्, तस्याऽसमुद्रत्वे वा शेषसमुद्रांशानामपि असमुद्रत्वात्, क्वचिदपि समुद्रव्यवहाराऽयोगात्, समुद्रांशः समुद्रांश एवोच्यते; तथा स्वा:थैकदेशो नयस्य न वस्तु, स्वाऽर्थंकदेशाऽन्तराणामवस्तुत्वप्रसङ्गाद् वस्तुबहुत्वाऽनुषतेर्वा, नाऽप्यवस्तु शेषांशानामप्यवस्तुत्वेन क्वचिदपि वस्तुव्यवस्थाऽनुपपत्तेः। किं तर्हि ? वस्त्वंश एवाऽसौ, ताह प्रतीतेर्बाधकाऽभावात् , ततो वस्त्वंशे प्रवर्तमानो नयः स्वर्थैकादेशव्यवसायलक्षणो न प्रमाणम् , नाऽपि मिथ्याज्ञानम्” इति ।
तत्र प्रथमोद्दिष्टस्य नैगमस्य निरुक्तितः स्वरूपमुपवर्णयतितत्रेति- तेषु, नयेषु मध्ये इत्यर्थः। अत्र 'नैकैमिनोति मिमीतेवा नगमः' इति निरुक्तिः। 'नैकः' इत्यस्यार्थः- प्रभूतैरिति । कैरित्या कासानिवृत्तये तस्यैव विशिष्योपवर्णनम्- मानैर्महासामान्या-ऽवान्तरसामान्यविशेषज्ञानलक्षणैरिति। नैकैमिनोतीति निरुक्तौ नैकम इति रूपं