________________
५० ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
अथ के ते नयाः ? यैः प्रतिनियतधर्मग्रह इति उच्यतेपादितम्, तत्र पृच्छति - अथेति । उत्तरयति - उच्यत इति । नैगमेति - नैगमः १, संग्रहः २, व्यवहारः ३, ऋजुसूत्रः ४, शब्द: ५, समभिरूढः ६, एवम्भूतः ७ इति सप्त नया इत्यर्थः, " नीयते येन श्रुताख्यप्रमाणविषयीकृतस्वार्थ स्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः " [ प्रमाण० परिच्छे० ७. सू० १. ] इतिसूत्राभिप्रेतं श्रुताख्यप्रमाणविषयीकृतवस्त्वंशस्य तदितरांशौदासीन्येन ग्राहकोऽभिप्रायविशेषो नयस्तत्त्वं नयत्वम्, एतत्सूत्रस्य नय- दुर्नयभेदपरिपत्तये रत्नप्रभसूरेरित्थं व्याख्यानम् - " अत्रैकवचनमतन्त्रम्, तेनांशावंशा वा, येन परामर्शविशेषेण श्रुतप्रमाणप्रतिपन्नवस्तुनो विषयीक्रियन्ते तदितरांशौदासीन्यापेक्षया स नयोऽभिधीयते, तदितरांशप्रतिक्षेपे तु तदाभासता भणिष्यते, प्रत्यपादयाम च स्तुतिद्वात्रिंशति
" अहो चित्रं चित्रं तव चरितमेनन्मुनिपते !, स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयतां, विपक्षक्षेष्तॄणां पुनरिह विभो ! दुष्टनयताम् " ॥ १ ॥
पञ्चाशति च
" निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां वस्तूनां नियतां शकल्पनपराः सप्त श्रुतासङ्गिनः । औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नयाश्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः " ॥ १॥ इति ।
66
नयस्य प्रमाणतो भेदस्तेनैव शङ्का-समाधानाभ्यामित्थं निर्णितःननु नयस्य प्रमाणाद् भेदेन लक्षणप्रणयनमयुक्तं स्वार्थ व्यवसायात्मकत्वेन तस्य प्रमाणस्वरूपत्वात्, तथाहि - नयः प्रमाणमेव स्वार्थव्यवसायकत्वात् इष्टप्रमाणवत्, स्वार्थव्यवसायकस्याप्यस्य प्रमाणत्वानभ्युपगमे प्रमाणस्यापि तथाविधस्य प्रमाणत्वं न स्यादिति कश्चित् तदसत् - नयस्य स्वार्थैकदेशनिर्णीतिलक्षणत्वेन स्वार्थ