________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ४९ कमिन्नेकत्वोद्बोधे 'अयं गुरुः' इति, अनेकत्वोबोधे 'एते गुरवः' इति, क्रमेणोभयोबोधे 'अयं गुरवः' इति प्रयोगस्त्वेकत्वावरुद्धे बहुत्वान्वयस्य निराकासत्वादेव निरसनीयः, यत्र त्वनूद्यविधेयभावतात्पर्येण तथाऽन्वये न निराकासत्वम् , तत्र भवत्येव नैगमनयाभिप्रायात् तथाप्रयोगः, यथा- " स भूभृदष्टावपि लोकपालाः" [ ] इत्यादिलौकिके, यथा च-" एकग्रहणगृहीता असङ्ख्येयाः प्रदेशा जीव:" [ ] इत्यादिलोकोत्तर इति स्मर्तव्यम् ॥ वचनप्रयोगप्रयोजकस्यैकत्वोद्वोधस्य बहुवचनप्रयोगप्रयोजकस्य बहुत्वोद्बोधस्य च सत्त्वादित्यत आह- क्रमेणोभयोद्बोध इति- 'अयं गुरवः' इति एकत्वेदन्त्वोभयावच्छिन्नविशेष्यतानिरूपिततादात्म्यनिष्ठसंसर्गतानिरूपितबहुत्वगुरुत्वोभयावच्छिन्नप्रकारताकबोधार्थमेव प्रयोक्तव्यम् , परमेकत्वविशिष्टे न बहुत्वान्वय इति नियमेन तादृशबोधे उक्तवाक्यं न साकासमिति तथाबोधने निराकासात्वादेवोक्तप्रयोगो न भवतीत्यर्थः। यत्र च साकाङ्कता तत्र तथाप्रयोगोऽपि भवतीत्याह-यत्र त्वति। “ स भूभृद्' इत्यत्र भूभृत्त्वावच्छेदेनैकत्वान्वयो लोकपालत्वावच्छेदेन बहुत्वान्वयः। “एक ग्रहण,” इत्यादिवाक्ये प्रदेशत्वावच्छेदेन बहुत्वान्चयो जीवत्वावच्छेदेनैकत्वान्वय इति धर्मिणोऽभेदान्वये एकत्वेऽपि अवच्छेदकभेदत एकत्वस्य बहुत्वस्य चान्वये उक्तवाक्यस्य साकाङ्क्षत्वं समस्ति, 'अयं गुरुवः' इत्यत्र त्विदन्त्वमपि गुरुत्वम् , यथा 'अयं घटः' इत्युपदेशवाक्ये घटत्वमेवेदन्त्वम् , यतः 'प्रवृत्तिनिमित्तधर्मावच्छेदेन वाच्यताबोधकं वाक्य. मुपदेशः' इत्युपदेशलक्षणम् , तच्चेदन्त्वस्य घटत्वस्वरूपत्व एव सङ्गतिमङ्गतीति विभिन्नावच्छेदकाऽभावान्न साकाङ्क्षत्वमिति बोध्यम् ।
श्रुतज्ञानोपयोगे च नयविशेषात् प्रतिनियतधर्मग्रह इति प्रति