________________
४८]
[ तत्त्वबोधिनीविवृतिविभूषितम् __अथैवं सर्वस्याऽनेकान्तत्वेन सर्वरूपत्वे कथं प्रतिनियतधर्मग्रह इति चेत् ? मतिज्ञानोपयोगे तत्तत्सामग्रीसव्यपेक्षक्षयोपशमविशेषात्, श्रुतज्ञानोपयोगे च नयविशेषादिति गृहाण, अत एवै
नन्वेवमनन्तधर्मात्मकत्वे वस्तुनः सर्वस्य सर्वात्मकत्वे घटस्य घटत्वेन ग्रहणं न पटत्वेन, पटस्य पटत्वेन ग्रहणं न घटत्वादिनेति प्रतिनियतधर्मग्रहः कथम् ? प्रतिनियतधर्मेण ग्रहणे प्रतिनियतधर्मात्मकत्वमेव प्रयोजकम् , तच्च नाभ्युपगम्यते स्याहादिभिरिति शङ्कते- अथेति । एवं जीवा-ऽजीवादीनां विचित्रभावा-ऽभावादिशबलैकरूपत्वे । अनन्तधर्मात्मकत्वेऽपि यद्धर्मेण वस्तुग्रहणस्य सामग्री, मतिशानावरणक्षयोपशमविशेषोऽपि तदनुकूल एव भवतीति तादृशक्षयोपशमविशेषसहकृतप्रतिनियतधर्मप्रकारकग्रहानुकूलसामग्रीविशेषात् तद्धर्मेणैव वस्तुग्रहणम् , तत्र सद्भिरप्यन्यधर्मेन ग्रहणम् , यथा-, एकान्तवादिमते एकस्मिन् घटे रूप-रस-गन्ध स्पर्शादीनां सत्त्वे. ऽपि चाक्षुषप्रत्यक्षात्मकग्रहणानुकूलसामग्या क्षयोपशमविशेषसहकृतया रूपवत्वेनैव रूपेण घटस्य ग्रहणं न तु सताऽपि रसवत्त्वादिनेति समाधत्ते- मतिज्ञानोपयोग इति । श्रुतज्ञानोपयोगे नयविशेषस्यापि प्रयोजकत्वं यदङ्गीकृतं तत्प्रयोजनमुपदर्शयति- अत एवेतिश्रुतज्ञानोपयोगे नयविशेषस्य प्रयोजकत्वादेवेत्यर्थः। गुरुर्देवदत्तादिरेकोऽप्यनन्तधर्मात्मकत्वादनेक इति तत्रानेकत्वस्य सत्त्वेऽपि यदैकत्वस्य प्रतिसन्धानं द्रव्यार्थिकनयाद् भवति तदा 'अयं गुरुः' इति बोधो भवति, यदा तु तत्र पर्यायार्थिकनयतोऽनेकपर्यायस्व. रूपत्वतोऽनेकत्वप्रतिसंधानं भवति तदा 'एते गुरवः' इति बोधो भवतीत्येवं बोधवैचित्र्यमुपपद्यत इत्यर्थः। ननु यत्रैकस्मिन् गुरावेकत्वस्य द्रव्यादेशादुरोधस्ततः पर्यायार्थादेशादनेकत्वस्य चोद्बोध इति क्रमेणोद्बोधे 'अयं गुरवः' इति प्रयोगोऽपि स्यादेक