________________
अनेकान्तव्यवस्थाप्रकरणम् ] . भावांशोऽपि न खलक्षणाऽतिरिक्तः सकलव्यक्तिवृत्तितिर्यक्सामान्याऽऽत्मा प्रामाणिका, देशेन तस्यैकव्यक्तिवृत्तित्वे सावयवत्वप्रसङ्गात् , कात्स्येन च तथात्वे इतरव्यक्तीनां निःसामान्यत्वप्रसङ्गादिति बौद्धः, तन-नैयायिकादिवत् सर्वथाऽतिरिक्तसामान्याभ्युपगम यद्यनवस्थापरिहाराय सम्बन्धस्य खवरूपमेव सम्बन्धस्तहि प्रथमसम्बन्धोऽपि सम्बन्धिभ्यामतिरिक्तो विशेषणताऽऽख्यः किमित्यभ्युपगन्तव्यः? अभावा-ऽभाववत्स्वरूपयोरेव तादात्म्येन सम्बन्धत्व. कल्पनस्यैव लाघवेन युक्तत्वादित्याह- अभावाऽभाववत्स्वरूपयोरेवेति । ... यथा चाऽभावांशस्य कथश्चिद्धर्मिवरूपाऽव्यतिरिक्तत्वं तथा भावांशस्यापि कथञ्चिद्धर्मिस्वरूपाऽव्यतिरिक्तत्वमेव, न तु सर्वथा मिन्नत्वमित्याह-भ वांशोऽपीति । स्वलक्षणातिरिक्तः स्वलक्षणं व्यक्तिस्वरूपं तद्भिन्नः। तिर्यवसामान्याऽऽत्मेति-सामान्यं जनमते द्विविधम्-'तिर्यक्सामान्यमूर्खतासामान्यं च' इति, तत्र “प्रतिव्यक्ति तुल्या परिगतिस्तिर्यक्सामान्यम् , शबल-शाबलेयादिपिण्डेषु गोत्वं यथा" [प्रमाण० परिच्छे० ५. सू० ४.] इतिसूत्रलक्षितं गोत्वादिकं तिर्यक्सामान्यं नैयायिकादिभिर्व्यतिरिक्तमुपेयते, तदात्मा भावांशोऽपि . स्वलक्षणव्यतिरिक्तो न प्रामाणिक इति बौद्ध आह । कथं न प्रामा णिक इत्यपेक्षायां बौद्ध एव हेतुमुपदर्शयति- देशेनेति-सामान्य सकलव्यक्तिवृत्ति यदुपेयते तत् प्रत्येक व्यक्तिषु देशेन वर्तते? कात्स्न्येन वा ? तत्र देशेन सामान्यस्य एकव्यक्तिवृत्तित्वे एकदेशेतकत्र वृत्तिः, द्वितीयदेशेन द्वितीयव्यक्तिवृत्तिः, तृतीयदेशेन तृतीय: व्यक्तिवृत्तिरित्येवं यावत्यो व्यक्तयस्तावन्तो देशाः सामान्यस्य स्यु रिति सावयवत्वं सामान्यस्य प्रसज्यत इत्यर्थः। कात्न्येनैकस्य सामान्यस्य सर्वव्यक्तिवृत्तित्वं तु न संभवत्येव एकत्र कात्न्येन परिसमाप्तस्य कृत्स्मद्वितीयस्वरूपाभावेन द्वितीयव्यक्तिवृत्तित्वा;