________________
४६ ]
[ तत्त्वबोधिनीविकृतिषिभूषितम् एव तदोषावकाशात् ,कथञ्चिव्यावृत्तानामपि व्यक्तीनां कश्चिदनुगतस्पेन सामान्यभावाभ्युपगमे च तदोषाऽसंस्पर्शात् ।
तत्-तदन्यक्षणवृत्तित्क्योविरोधादूर्ध्वतासामान्याऽऽत्मा भावो नास्तीति स एव, तदप्यसत्-स एवायमिति प्रत्यभिज्ञयैवोलता योगात्, एवं च द्वितीयादिव्यक्तीनां निःसामान्यत्वं प्रसज्यत इत्याहकारस्न्येन चेति। तथात्वे एकव्यक्तिवृत्तित्वे। "बौद्धः" इत्यनन्सरम् 'आह' इति शेषः। उक्तदोषो नैयाधिकादीन् सर्वथा व्यतिरिक्तसामान्याभ्युपगन्तृनेवोत्त्रासयितुं समर्थः, न जैनान् , जैनैर्व्यक्तीनामेव कश्चिद् व्यावृत्तत्वेन विशेषात्मकत्व कथञ्चिदनुगतत्वेन च सामान्यात्मकत्वं चाभ्युपेयत इति तत्रोक्तदोषस्य प्राप्तेरभावादिति प्रतिक्षिपति-तन्नेति । तद्दोषेति-बौद्धोपदर्शितदोषेत्यर्थः, एवमग्रेऽपि ।
ऊध्यतासामान्याऽपलापोऽपि बौद्धस्य न युक्त इत्याह-तत्-नद्न्येति- तत्क्षणवृत्तित्व-तदन्यक्षणवृत्तित्वयोः। विरोधात् असामानाधिकरण्यात्, यंत्र तत्क्षणवृत्तित्वं तत्र न तदन्यक्षणवृत्तित्वं भावमात्रस्य क्षणिकत्वेन वर्तमानक्षणकमात्रवृत्तित्वस्वाभाव्यात् । ऊवतासामान्यात्मेति-" पूर्वापरपरिणामसाधारणं द्रव्यमूर्खतासामान्यम्, कटक-कङ्कणाद्यनुगामिकाञ्चनवत्" [प्रमाण० परिच्छे० ५. मू० ५.] इतिसूत्रलक्षितं पूर्वापरपर्यायानुस्यूतं मृत्सुवर्णादिद्रव्यमूर्खतासामा. न्यम् , तदात्मा भावो नास्तीत्यर्थः। स एव बौद्ध एव, आहेत्यर्थः। तदप्यसत् एतदपि बौद्धमननं न समीचीनम् । तत्र हेतुमुपदर्शयतिस एवायमितीति-यदेव कुण्डलरूपं पूष सुवर्णं तदेवेदानी कटकरूपमिति पूर्वापरपर्यायानुस्यूतैकद्रव्यावगाहिप्रत्यमिज्ञानम्, तेनैवोलता. सामान्यरूपद्रव्यसिद्धेरित्यर्थः। 'तत्-तदन्यक्षणवृत्तित्वयोविरोधात्' इति यदुक्तं तदपि न-यथा बौद्धमते चित्रशानमेकमेव नीलाकार पीताकारमिति न तयोविरोधस्तथैव तत्क्षणवृत्तित्व- तदन्यक्षणवृत्ति