________________
४४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् न्याय्यः, एकान्त भेदे सम्बन्धानुपपत्तेः, विशेषणताया एकस्वरूपत्वेऽतिप्रसङ्गादुभयस्वरूपत्वे तादात्म्यपर्यवसानात् , एकदेशिनां तदतिरेकाभ्युपगमस्याप्यन्याय्यत्वात् , तत्रापि सम्बन्धान्तरान्वेषणायामनवस्थानात् , स्वरूपतस्तस्याः सम्बन्धत्वाभ्युपगमे चाभावाऽभावबत्स्वरूपयोरेव तादात्म्येन सम्बन्धत्वकल्पनौचित्यादिति दिग् ॥ भयस्वरूपत्वे च तदभिन्नाऽभिन्नस्य तदमिन्नत्वम्' इति नियमेन घटाभावाऽभिन्नसम्बन्धाऽभिन्नस्य भूतलस्य घटाभावाऽभिन्नत्वमायातमित्यभावाऽभाववतोः कथञ्चित्तादात्म्ये भावाऽभावोभयात्मकैकखरूपत्वलक्षणोऽनेकान्तः सिद्ध एवेत्याह- विशेषगताया इति । एकस्वरूपत्वे अभावाऽभाववतोरन्यतरस्वरूपत्वे। उभयस्वरूपत्वे अभावतद्वद्भावोभयस्वरूपत्वे, विशेषणता तु साक्षादेव भावाभावोभयात्मकत्वेनानेकान्तस्वरूपा सिद्धा, तद्वारा धर्मिस्वरूपवस्तुनोऽप्यनेकान्ततात्मकत्वं सिद्ध व्यतीति ।
सम्बन्धोऽभावा-ऽधिकरणयोस्ताभ्यामतिरिक्त एवेति नैयायिकैकदेशिनां मते नाऽभावाऽभाववतोस्तादात्म्यसिद्धिः, अतस्तन्मतं प्रतिक्षिपति-एकदेशिनामिति-नैयायिकैकदेशिनामित्यर्थः। तदतिरेकाभ्युपगमस्य "अभावाऽभाववद्भ्यां तत्सम्बन्धे भेदाभ्युपगमस्य। कथं तथाऽभ्युपगमस्याऽन्याय्यत्वमित्यपेक्षायामाह- तत्रापीति- अतिरिक्तसम्बन्धेपीत्यर्थः। सम्बन्धोऽपि सम्बन्धिभ्यां सह सम्बद्ध एव सम्बन्धतामाप्नोति नाऽसम्बद्धोऽतिप्रसङ्गादिति सम्बन्धसम्बन्धोऽपि सम्बन्धिभ्यामतिरिक्तोऽभ्युपगन्तव्यः, सोऽपि सम्बद्ध एव सम्बन्ध इति तत्सम्बन्धोऽप्यतिरिक्त आस्थेय इत्येवमनवस्थानादित्यर्थः। नन्वभावाऽभाववतोरतिरिक्ता विशेषणता सम्बन्धः, तस्याश्च सम्बन्धिभ्यां नातिरिक्तः सम्बन्धः किन्तु स्वरूपस्येव तत्सम्बन्धत्वमिति नानवस्थाप्रसङ्ग इत्यत आह- स्वरूपत इति । तस्याः विशेषणताया।