________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ४३
किञ्च, भावादेरनतिरेके दुरितध्वंसादेः परमेश्वरनमस्कारादिकार्यता न स्यात्, आत्मनि दुरितध्वंसस्याऽऽत्मस्वरूपत्वात् तस्य च नित्यत्वेनाऽजन्यत्वात्, नित्यत्वेऽपि कथञ्चिदनित्यत्वाभ्युपगमेSस्मत्पक्षप्रवेश इति यत्किञ्चिदेतदिति दिग् ।
अभावाभाववतोरेकान्तभेदोऽपि नैयायिकाद्यभिमतो न
6 भावा
भट्टानुयायिनो मीमांसकस्याऽप्यधिकरणात्मकाभावाभ्युपगमो न युक्तः, दुरितध्वंसस्याऽऽत्मरूपस्य नित्यतयेश्वरनमस्कारादिजन्यत्वाऽभावापत्तेरित्याह- किञ्चेति । भावादेरनतिरेके' इति स्थाने दनतिरेके' इति पाठो युक्तः, 'अभावस्य ' इति शेष, तथा चाभावस्याधिकरणलक्षणभावादभेद इत्यर्थः । तस्य च आत्मनश्च । यदि च पूर्वावस्थात्मनः सकाशादुत्तरावस्थस्यात्मनः कथञ्चिद्भिन्नत्वमभ्युपगम्याऽनित्यत्वमपि कथञ्चिदात्मन उपेयते तदा तस्य कार्यत्वसम्भवेऽपि स्याद्वादप्रवेशापत्तिः स्यादित्याह - नित्यत्वेऽपीति । अस्मत्पक्षप्रवेश: जैनमतप्रवेशः, एतावताऽभावांशो नास्त्येव, अधिकरणात् सर्वथाऽभिन्न एव वा स इति मतमपाकृतम् ।
इदानीमधिकरणलक्षणभावात् सर्वथा भिन्न एवाभाव इति मैकस्य भावाऽभावोभयात्मकत्वलक्षणोऽनेकान्त इति नैयायिकादिमतमपाकरोति - अभाव - ऽभाववतोरिति । एकान्तभेदे एकान्ताऽभेदे च न सम्बन्ध इति अभावाऽधिकरणयोः सर्वथा भेदे सम्बन्ध एव नः भवेदिति विशिष्टप्रतीत्यनुपपत्तिरिति निषेधहेतुमुपदर्शयति- एकान्तमेद इति, अभावस्याधिकरणेन समं विशेषणताख्यस्वरूपसम्बन्ध एष नैयायिकादिभिरुपेयते, तस्याऽभावस्वरूपत्वेऽभावस्य नित्यस्य सर्वान् प्रत्यविशिष्टत्वाद घटवत्यपि घटाभाववत्ताप्रतीतिः स्यात्, एवं केवलाधिकरणस्वरूपत्वेऽपि सवातिप्रसक्तिः, अभावाधिकरणो