________________
४२]
[ तत्त्वबोधिनी विवृतिविभूषितम् न- अतिरिक्ताऽभाववादिभिर्नैयायिकादिभिर्भूतलत्वावच्छिन्न एव घटाऽभाववत्तास्वीकारेऽपि कालविशेषविशिष्टत्वस्य सम्बन्धतयाsतिप्रसङ्गनिराकरणात् , अस्माकं तु कालविशेषविशिष्टत्वेन सूत्रनयादेशात् पूर्वावस्थातः कथञ्चिद् भिन्नस्य भूतलस्य घटाऽभावाऽऽधारत्वाऽभ्युपगमेनानुपपत्त्यभावात् , परस्य चैवमभ्युपगमेऽनेकान्तप्रवेशापत्तिः।
भाववत्तानियामकसम्बन्धतया नैयायिकादिभिरभ्युपगतस्य तदानीमभावादेव न तत्र घटाभाववत्ताप्रतीतिः, भूतलत्वं च न भूतले शुद्धत्वं भवताऽभ्युपेषम् , तथा सति घटसत्त्वदशायामपि घटाभावव्यवहारः स्यादिति घटाभाववत्त्वमेव शुद्धत्वमङ्गीकृत्य तद्विशिष्टस्य भूतलस्य घटाभावव्यवहारविषयत्वे घटाभावोऽतिरिक्त आयात पवेति समाधत्ते-नेलि । जनमते तु घटशून्यकालीनाद् भूतलाद् घटकालीनं भूतलं कथञ्चिद् भिन्नमेव ऋजुसूत्रनयादेशादिति घटवत्तादशाविशिष्टभूतलात् कालविशेषविशिष्टत्वेन कथञ्चिद्भिन्नस्य भूतलस्य घटाभावाधारत्वमित्यस्याभ्युपगमेन न घटवत्ताकाले घटाभाववत्ताबुद्धिरित्याह- अस्माकं विनि- जैनानां त्वित्यर्थः। कालविशेष वशिष्टत्वेन यस्मिन् काले यत्र भूतले घटो नास्ति तत्कालविशिष्टत्वेन । पूर्वावस्थातः घटवत्तावस्थातः, अवस्था-तद्वतोरभेदात् तदवस्थात्मकभूतलतः। परस्य प्रभाकरमतानुयायिनः। एवमभ्युपगमे पूर्वावस्थाविशिष्टभूतलादुत्तरावस्थभूतलस्य कश्चिद्भिन्नत्वस्याभ्युपगमे। अनेकान्तप्रवेशापत्तिः भूतलत्वेनाभेदस्योक्तप्रकारेण मेदस्य चाभ्युपगमाद् मेदारभेदलक्षणानेकान्तप्रवेशापत्तिः, तथा व स्वसिद्धास्तव्याकोपः प्रसज्यत इति।