________________
प्रमाणनयतत्त्वालोकालङ्कारः ।
३७
शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्य
त्वेनाभ्युपगच्छन्नेवंभूतः ॥ ४० ॥ यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥ ४१ ॥ क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपंस्तुतदाभासः || ४२ ॥
यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥ ४३ ॥
एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः ४४ शेषास्तुत्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः॥४५ पूर्वः पूर्वोनयः प्रचुरगोचरः, परः परस्तु परिमितविषयः ॥ ४६ ॥
सन्मात्रागोचरात्संग्रहान्नैगमो भावाभावमूमिकत्वाद् भूमविषयः ॥ ४७ ॥
सद्विशेषप्रकाशकाद्वयवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वात् बहुविषयः ॥ ४८ ॥