________________
३८
प्रमाणनयतत्त्वालोकालङ्कारः ।
वर्तमान विषयादृजुसूत्राद्व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः ॥ ४९ ॥ कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसुत्रस्तद्विपरीतवेदकत्वान्महार्थः ॥ ५० ॥
प्रतिपर्याय शब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ॥ ५१ ॥ प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवंभूतात्सम मिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः ॥५२॥ नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ५३ ॥ प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥ ५४ ॥ प्रमातां प्रत्यक्षादिप्रसिद्ध आत्मा ॥ ५५ ॥ चैतन्यस्वरूपः परिणामी कर्त्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नःपौद्गलिकादृष्टवांश्चायम् ५६ तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपा सिद्धिः ॥ ५७ ॥
इति श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्वालोकालङ्कारे नयात्मस्वरूपनिर्णयो नाम सप्तमः परिच्छेदः ॥ ७ ॥