________________
प्रमाणनयतत्त्वालोकालङ्कारः। यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः॥ २९ ॥ सर्वथा द्रव्यापलापी तदाभासः ॥ ३०॥ यथा तथागतमतम् ॥३१॥ कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः॥३२॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादिः॥३३॥ तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः॥३४॥ यथा बभूव जवति भविष्यति सुमेरुरित्यादयोभिन्नकालाःशब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तासिकान्यशब्दवदित्यादिः ॥३५॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन् समनिरूढः ॥ ३६॥ इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥ ३७॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः॥ ३८॥ यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेयाएव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदि. त्यादिः॥ ३९॥