________________
प्रमाणनयतत्त्वालोकाळङ्कारः ।
३५
गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥ १९ ॥ धर्माधर्माकाशकालपुद् गलजीवद्रव्याणामैक्यं द्रव्य
त्वाभेदादित्यादिर्यथा ॥ २० ॥ द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान्निहुवानस्तदा
जासः ॥ २१ ॥
यथा द्रव्यत्वमेव तत्त्वं, ततोर्थान्तरभूतानां द्रव्याणामनुपलब्धेः ॥ २२ ॥ संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनानिसन्धिना क्रियते स व्यवहारः ॥ २३ ॥ यथा यत्सत्तद् द्रव्यं पर्यायोवेत्यादि ॥ २४ ॥ यः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रैति स व्यवहाराभासः ॥ २५ ॥
यथा चार्वाकदर्शनम् ॥ २६ ॥ पर्यायार्थिकश्चतुर्द्धा ऋजुसूत्रः शब्दः, समभिरूढ एवंभूतश्च ॥ २७ ॥
ऋजु वर्त्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्ननिप्राय विशेष ऋजुसूत्रः ॥ २८ ॥
"