________________
३४ प्रमाणनयतत्त्वालोकालङ्कारः । सञ्चैतन्यमात्मनीतिधर्मयोः ॥ ८॥ वस्तुपर्यायवद् द्रव्यं इति धम्मिणोः ॥ ९॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ॥१०॥ धर्मद्वयादीनामैकान्ति कपार्थक्यामिसन्धिनैंगमाभासः ॥ ११ ॥ यथात्मनि सत्वचैतन्ये परस्परमत्यन्तं पृथगभूते इत्यादिः ॥ १२ ॥ सामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३ ॥ अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ अशेषविशेषेष्वौदासीन्यम्भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः ॥ १५ ॥ विश्वमेकं सदविशेषादिति यथा ॥ १६ ॥ सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः ॥ १७ ॥ यथासत्तैव तत्त्वम् ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥ १८॥ द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भदेषु