________________
३०
प्रमाणनयतत्त्वालोकालङ्कारः ।
अनित्यः शब्दः कृतकत्वात् यदनित्यं तत् कृतकं घटवदिति विपरीतान्वयः ॥ ९ ॥ ६८ ॥ वैधम्येणापि दृष्टान्ताभासो नवधा ॥ ६९ ॥
असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसि - sोभयव्यतिरेकः सन्दिग्धसाध्यव्यतिरेकः सन्दिग्धसाधनव्यतिरेकः सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च ॥७०|| तेषु चान्तमनुमानं प्रमाणत्वात् यत्पुनर्भान्तं न भवति न तत् प्रमाणं यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः स्वप्नज्ञानात् भ्रान्तत्वस्यानिवृत्तेः ॥ ९ ॥ ७१ ॥ निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात्यत्तु सविकल्पं न तत्प्रमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः ॥ २ ॥ ७२ ॥ नित्यानित्यः शब्दः सत्वात् यस्तु न नित्यानित्यः सन संस्तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तभान्नित्यानित्यस्य सत्त्वस्य चाव्यावृत्तेः ॥ ३ ॥ ७३ ॥