________________
प्रमाणनयतत्त्वालोकालङ्कारः। ३१ असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वात् यःसर्वज्ञ आप्तो वा सक्षणिकैकान्तवादी यथासुगत इति सन्दिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञतानाप्तत्वयोः साध्यधर्मयो व्यावृत्तेः सन्देहात्॥ अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्वाद्यः पुनरादेयवचनःस वीतरागस्तद्यथा शोद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः शौद्धोदनौ रागादिमत्वस्य निवृत्तेः संशयात् ॥ ७५॥५॥ नवीतरागः कपिलः करुणास्पदेष्वपि परमकृपयाऽनर्पितनिजपिशितशकलत्वात् यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजापाशतशकलस्तद्यथातपनबन्धुरिति सन्दिग्धोभयव्यतिरेकः तपनबन्धौवीतरागत्वाभावस्य करुणास्पदेष्वपि परमकृपयानर्पितनिजपिशितशकलत्वस्य च व्यावृत्तेः सन्देहात् ॥ ६॥ ७६ ॥ न वीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वात् यः पुनर्वीतरागो न स वक्ता यथोपलखण्डइत्यव्यतिरेकः ॥ ७७॥ ७॥