________________
२४ प्रमाणनयतत्त्वालोकालङ्कारः। तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः ८ प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः ॥ ९॥ यः प्रमिमीते सएवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिनिरस्खलितमनुभवात् ॥ १० ॥ इतरथा स्वपरयोः प्रमाणफलव्यवस्था विप्लवः प्रसज्येत ॥ ११॥ अज्ञाननिवृत्तिस्वरूपण प्रमाणादनिन्नेनसाक्षात्फलेन साधनस्यानेकान्त इति नाशङ्कनीयम् ॥१२॥ कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात् ॥१३॥ साध्यसाधननावेन प्रमाणफलयोः प्रतीयमानत्वात्॥ ॥१४॥प्रमाणंहि करणाख्यं साधनं, स्वपरव्यवसितौ साधकतमत्वात् ॥१५॥ स्वपरव्यवसितिक्रियारूपाऽज्ञाननिवृत्त्याख्यं फलंतु साध्यं, प्रमाणनिष्पाद्यत्वात् ॥ १६ ॥ प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः॥ कर्तृक्रिययोः साध्यसाधकनावेनोपलम्नात् ॥१८॥