________________
प्रमाणनयतत्त्वालोकालङ्कारः ।
२५
कर्त्ता हि साधकः, स्वतन्त्रत्वात्; क्रियातु, साध्या कर्तृनिर्वत्त्यत्वात् ॥ १० ॥
न च क्रिया क्रियावतः सकाशादजिन्नेव, जिन्नेव वा; प्रतिनियत क्रियाक्रियावद्भावनङ्गप्रसङ्गात् ॥ २० ॥ संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभिमतसिद्धिविरोधात् ॥ २१ ॥ ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वकिर्त्तव्यः ॥ २२ ॥ प्रमाणस्य स्वरुपादिचतुष्टयाद्विपरीतं तदाभासम् ॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पकसमारोपाः प्रमाणस्य स्वरुपाभासाः ॥२४॥ यथा सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्शनविपर्यसंशयानध्यवसायाः ॥ २५ ॥ तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ॥ २६ ॥
सांव्यवहारिक प्रत्यक्षमिव
यदाभासते तत्तदा
•
भासम् ॥ २७ ॥
यथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानञ्च ॥