________________
२२ प्रमाणनयतत्त्वालोकालङ्कारः। तद्विपरीतस्तु विकलादेशः॥४५॥ तद्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्वरूपसामर्थ्यतः प्रतिनियतमर्थमवद्योतयति।४६॥ न तदुत्पत्तितदाकारताभ्यां, तयोः पार्यक्येन सामसत्येन च व्यभिचारोपलम्नात् ॥४७॥ इति आगमाख्यप्रमाणस्वरूपनिर्णयोनाम चतुर्थः परिच्छेदः ४ तस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥ १॥ अनुगतविशिष्टाकारप्रतीतिविषयत्वात् प्राचीनोत्तराकारपरित्यागोपादानावस्थानस्वरूपपरिणत्यार्थक्रियासामर्थ्यघटनाच ॥ २॥ सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्खता. सामान्यश्च ॥३॥ प्रतिव्यक्तितुल्यापरिणतिस्तिर्यक्सामान्यं शबलशाबलेयादिपिण्डेषु गोत्वं यथा ॥४॥ पूर्वापरपरिणामसाधारणं द्रव्यमूर्खतासामान्यं कटककङ्कणाद्यनुगामिकाञ्चनवत् ॥५॥