________________
प्रमाणनयतत्त्वालोकालङ्कारः। वाचकश्च ध्वनिर्नान्यथा इत्यपि मिथ्या ॥ ३५॥ विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धेः ॥३६॥ एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्मा भ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् ॥ ३७॥ विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तजङ्गीनामेव संभवात् ॥ ३८॥ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् ॥ ३९ ॥ तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् ॥ तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात् ॥ ४१ ॥ तस्याऽपिसप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ॥४२॥ इयंसप्तनङ्गी प्रतिनङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥ ४३॥ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥४४॥ .