________________
प्रमाणनयतत्वालोकालङ्कारः ।
क्वचित्कदाचित्कथञ्चित्प्राधान्येनाप्रतिपन्नस्य तस्याप्राधान्याऽनुपपत्तेः ॥ २५ ॥ निषेधप्रधानएव शब्द इत्यपि प्रागुक्तन्यायादपास्तम् ॥ २६ ॥ क्रमादुभयप्रधानएवायमित्यपि नसाधीयः ॥२७॥ अस्य विधिनिषेधाऽन्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् ॥ २८ ॥ युगपद्विधिनेषेधात्मनो ऽर्थस्यावाचक एवासौ इतिवचो न चतुस्त्रम् ॥ २९ ॥ तस्यावक्तव्यशब्देनाप्य वाच्यत्वप्रसङ्गात् ॥ ३० ॥ विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगदवाचकएव स इत्येकान्तोऽपि नकान्तः ॥ ३१ ॥ निषेधात्मनः सहद्वयात्मनश्चार्थस्य वाचकत्वावाचकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् ॥३२॥ निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचकएवायमित्यप्यवधारणं न रमणीयम् ॥३३॥ इतरथापि संवेदनात् ॥ ३४ ॥
क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्चा
२०
1