________________
प्रमाणनयतत्त्वालोकालङ्कारः। तद्यथा स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमोभङ्गः ॥१५॥ स्यान्नास्त्येव सर्वमितिनिषेधकल्पनया द्वितीयः॥१६॥ स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः ॥ १७॥ स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः॥ १८॥ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः ॥ १९ ॥ स्यानास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्वधिनिषेधकल्पनया च षष्ठः ॥ २० ॥ स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतोविधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमति ॥ २१ ॥ विधिप्रधानएव ध्वनिरिति न साधुः ॥ २२॥ निषिधस्य तस्मादप्रतिपत्तिप्रसक्तेः ॥ २३ ॥ अप्राधान्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् ॥२४॥