________________
प्रमाणनयतत्त्वालोकालङ्कारः।
अभिधेयं वस्तु यथावस्थितं योजानीते यथाज्ञातश्चाभिधत्ते स आप्तः॥४॥ तस्य हि वचनमविसंवादि भवति ॥ ५॥ स च द्वेधा लौकिको, लोकोत्तरश्च ॥ ६ ॥ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थंकरादिः ॥७॥ वर्णपदवाक्यात्मकं वचनम् ॥ ८॥ अकारादिः पौद्गालिको वर्णः ॥ ९ ॥ वर्णानामन्योन्यापेक्षणां निरपेदा संहतिः पदं, पदानान्तु वाक्यम् ॥ १०॥ स्वभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः ॥११॥ अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवत् यथार्थत्वायथार्थत्वे पुनः पुरुषगुणदोषावनुसरतः ॥१२॥ सर्वत्रायं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ॥ १३ ॥ एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥१४॥