________________
१४
प्रमाणनयतत्त्वालोकालङ्कारः ।
ध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात् यः प्रयत्नानन्तरीयकः स परिणतिमान् यथास्तम्भो यो वा न परिणतिमान् स न प्रयत्नानन्तरीयको यथा वान्ध्येयः प्रयत्नानन्तरीयकश्च ध्वनिस्तस्मापरिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः साधर्म्येण वैधर्म्येण च ॥ ७६ ॥ अस्त्यत्र गिरिनिकुञ्जे धनञ्जयो धूमसमुपलम्भादिति कार्यस्य ॥ ७७ ॥ भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्य ॥ ७८ ॥
उदेष्यति मुहुर्त्तान्ते तिष्यतारका पुनर्वसूदयदर्शनादिति पूर्वचरस्य ॥ ७९ ॥ उदगुर्मुहूर्त्तात्पूर्वपूर्व फल्गुन्यउत्तरफल्गुनीनामुद्गमोपलब्धरित्युत्तरचरस्य ॥ ८० ॥
अस्तीह सहकारफले रूपविशेषः समास्वाद्यमानरसविशेषादिति सहचरस्य ॥ ८१ ॥ विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा || ८२ तत्राद्या स्वभावविरुद्वोपब्धिर्यथा ॥ ८३ ॥