________________
प्रमाणनयतत्त्वालोकालङ्कारः। या॑प्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहियातेरुद्भावनं व्यर्थम् ॥ ३७॥ पक्षीकृतएवविषये साधनस्य साध्येन व्यातिरन्तयातिरन्यत्रतुबहियांतिः यथाऽनैकान्तात्मकं वस्तु सत्त्वस्यतथैवोपपत्तेः । अग्निमानयं देशो धूमवत्वात् य एवं स एवं यथा पाकस्थानम् ॥३८॥ नोपनयनिगमनयोरपिपरप्रतिपत्तौ सामर्थ्यपक्षहेतुप्रयागोदेव तस्याः सद्भावात् ॥ ३९ ॥ समर्थनमेवपरंपरप्रतिपत्त्यङ्गमास्तां तदन्तरेणदृष्टान्तादिप्रयोगेऽपि तदसंभवात् ॥ ४० ॥ मन्दमतींस्तुव्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥४१॥ प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः॥ ४२ ॥ स द्वेधा साधर्म्यतो वैधयंतश्च ।। ४३॥ यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ताप्रकाश्यते स साधर्म्यदृष्टान्तः॥ ४४ ॥ यथा यत्र धूमस्तत्र वह्निर्यथा महानसः॥४५॥