________________
प्रनाणनयतत्त्वालोकालङ्कारः। हेतुप्रयोगस्तथो पपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः ॥ २९ ॥ सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः । असति साध्ये हेतो रनुपपत्तिरेवान्यथानुपपत्तिः॥३०॥ यथाकृशानुमानयंपाकप्रदेशः सत्येवकृशानुमत्वे धूमवत्वस्योपपत्तेरसत्यनुपपत्तेवेति ॥३१॥ अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्रानुपयोगः ॥ ३२॥ नदृष्टान्तवचनं परप्रतिपत्तये प्रभवति तस्यां पक्षहेतुवचनयोरेव व्यापारो पलब्धेः ॥ ३३ ॥ नच हेतोरन्यथानुपपत्तिनिर्णीतये यथोक्ततर्कप्रमाणादेव तदुपपत्तेः ॥ ३४ ॥ नियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्तेरयोगतो विप्रतिपत्तौ तदन्तरापेक्षायामनवस्थितेर्दुर्निवारः समवतारः ॥ ३५ ॥ नाप्यविनाभावस्मृतये प्रतिपन्नप्रतिबन्धस्य व्युत्पन्नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः अन्त