________________
www.
प्रमाणनयतत्त्वालोकालङ्कारः। आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धोधर्मी ॥ २०॥ धमिणः प्रसिद्धिः क्वचिद्विकल्पतः कुत्रचित्प्रमाणतःक्वापि विकल्पप्रमाणाभ्याम् ॥ २१ ॥ यथा समस्तिसमस्तवस्तुवेदी क्षितिधरकन्धरेयंधू. मध्वजवती ध्वनिः परिणतिमानिति ॥२२॥ पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥२३॥ साध्यस्य प्रतिनियतमिसंबन्धिता प्रसिद्धये हेतोरुपसंहारवचनवत्पक्षप्रयोगोप्यवश्यमाश्रयितव्यः ॥२४॥त्रिविधंसाधनमभिधायैव तत्समर्थनं विदधानः कः खलु न पक्षप्रयोगमीकुरुते ॥२५॥ प्रत्यक्षपरिच्छिन्नार्थाभिधायिवचनं परार्थ प्रत्यक्षं परप्रत्यक्षहेतुत्वात् ॥ २६ ॥ यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डिताभरणभारिणींजिनपतिप्रतिमामिति॥ २७ ॥ पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरङ्गं न दृष्टान्तादिवचनम् ॥ २८॥