________________
प्रमाणनयतत्त्वालोकालङ्कारः। तीति तस्मिन्नसत्यसौ नभवत्येवेति ॥८॥ अनुमानं द्विप्रकारं स्वार्थ परार्थ च ॥ ९॥ तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् ॥ १०॥ निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः॥ ११ ॥ नतु त्रिलक्षणकादिः ॥ १२ ॥ तस्य हेत्वाभासस्यापिसभ्वात् ॥ १३ ॥ अप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥ १४ ॥ शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनम् ॥१५॥ प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनिराकृतग्रहणम् ॥ १६ ॥ अनभिमतस्यासाध्यत्व प्रतिपत्तयेऽभीप्सितपदोपादानम् ॥ १७ ॥ व्याप्तिग्रहणसमयापेक्षया साध्यं धर्मएवान्यथा तदनुपपत्तेः ॥१८॥ नहि यत्र यत्र धूमस्तत्र तत्रचित्रभानोरिव धरित्रीधरस्याप्यनुवृत्तिरस्ति ॥ १९ ॥