________________
प्रमाणनयतत्त्वालोकालङ्कारः। नच कवलाहारवत्वेन तस्यासर्वज्ञत्वं कवलाहारसर्वज्ञत्वयोरविरोधात् ॥ २८॥ • इति प्रत्यक्षस्वरूपनिर्णयोनाम द्वितीयः परिच्छेदः ॥ २ ॥
अथ तृतियः परिच्छेदः
Hanuman
अस्पष्टं परोक्ष।।१।।स्मरणप्रत्यभिज्ञानतर्वानुमानागमभेदतस्तत्पश्चप्रकारं॥२॥तत्रसंस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणम् ॥३॥ तत्तीर्थकरबिम्बमिति यथा ॥४॥ अनुभवस्मृतिहेतुकं तिर्यगुर्द्धतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५॥ यथातज्जातीयएवायं गोपिण्डो गोसदृशोगवयः स एवायं जिनदत्त इत्यादि ॥६॥ उपलम्भानुपलम्भसम्भवं त्रिकालीकलित साध्यसाधनसंबन्धाद्यालम्बनमिदमस्मिन् सत्येवभवतीत्याधाकारं संवेदनमूहापरनामा तर्कः ॥७॥ यथा यावान् कश्चित् धूमःस सर्वोवहौसत्येव भव