________________
प्रमाणनयतत्त्वालोकालङ्कारः। तथाहि नखल्वदृष्टमवगृह्यते नचानवगृहीतं सन्दिह्यते नचासन्दिग्धमीह्यते नचानीहितमवेयते नाप्यनवेतं धार्यते ॥ १७ ॥ क्वचित् क्रमस्यानुपलक्षणमेषमाशुत्पादादुत्पलपत्रशतव्यतिभेदक्रमवत् ॥ १८ ॥ पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ॥१९॥ तदविकलं सकलं च ॥२०॥ तत्र विकलमवधिमनःपर्यायज्ञानरूपतयाद्वधा ॥२१ अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् ॥ २२ ॥ संयमविशुद्धिनिबन्धनाद्विशिष्टावरण विच्छेदाजातंमनोद्रव्यपर्यायालम्बनं मनः पर्यायज्ञानम् ॥२३॥ सकलंतुसामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् ॥ २४ ॥ तद्वानहन्निर्दोषत्वात् ॥ २५॥ निदोषोसौ प्रमाणाविरोधिवाक्त्वात् ॥ २६ ॥ तदिष्टस्य प्रमाणेनाबाध्यमानत्वात् तद्वाच स्तेना विरोधसिद्धिः ॥ २७॥