________________
प्रमाणनयतत्त्वालोकालङ्कारः । एतद्वितयमवग्रहेहावायधारणाभेदादेकेशश्चतुर्वि
४
कल्पकम् ॥ ६ ॥
विषयविषयिसन्निपातान्तरसमुद्भूतसत्तामात्र गोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टव
स्तुग्रहणमवग्रहः ॥ ७ ॥ अवग्रहीतार्थविशेषाकाङ्क्षणमीहा ॥ ८ ॥
ईहितविशेषनिर्णयोऽवायः ॥ ९ ॥
सएवदृढतमावस्थापन्नोधारणा ॥ १० ॥ संशयपूर्वकत्वादी हायाः संशयाद्भेदः ॥ ११ ॥ कथञ्चिदभेदेपिपरिणाम विशेषादेषां
व्यपदेशनेदः ॥ १२ ॥
असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावतया ऽनुभूयमानत्वादपूर्वा पूर्ववस्तुपर्यायप्रकाशकत्वात्
क्रमभावित्वाच्चैते व्यतिरिच्यन्ते ॥ १३ ॥ क्रमोप्यमीषामयमेव तथैवसंवेदनात् ॥ १४ ॥ एवं क्रमाविर्भूतनिजकर्म्मक्षयोपशमजन्यत्वाच्च ॥१५॥ अन्यथाप्रमेयानवगतिप्रसङ्गः ॥ १६ ॥
१ एकैकश " इत्यपिपाठान्तरम् ।